________________
246
पूर्वरूपसरः (०९)
mmmmmmmmm ___'हिरण्यवर्णाश्शुचयः' इत्यादिश्रुत्युक्तं हिरण्यवर्णात्वमित्यथः । एषूदाहरणेषु स्वगुणत्यागपूर्वकान्यगुणग्रहणं स्पष्टमेव । आये समालंकारेण द्वितीये भ्रान्तिमता तृतीये उपमया तुरीये गम्योत्प्रेक्षया चायं परिष्कृत इति परस्परं वैलक्षण्यं बोध्यम् ॥
इत्यलंकारमणिहारे तद्गुणसरोऽष्टसप्ततितमः.
अथ पूर्वरूपसरः (७९)
स्वगुणस्य पुनः प्राप्तिः पूर्वरूपमितीर्यते ।
पूर्व स्वगुणत्यागेन गृहीतान्यगुणस्य पुनिजगुणप्राप्तिः पूर्वरूपं नामालंकारः ॥
यथावाजलधेरधिरूढाया हृदयं स्वरुचा श्रियोऽतिनैल्यजुषः । वैलक्ष्यं वीक्ष्य हरिय॑धाद्यथापुरमिमां स्वमणिभासा ॥ १८१६ ॥
वैलक्ष्यं हिरण्यवर्णाया अपि मम वल्लभहृदयपरिष्वङ्गस_मेण निरतिशयो नीलिमा समजनीति पाविशेषः । स्वमणेः कौस्तुभस्य भासा इमां श्रियं यथापुरं पूर्ववदेव हिरण्यवर्णा व्यधात् । न चात्र हिरण्यवर्णत्वेन श्रुतायाश्श्रियः पीतवर्णतया कौस्तुभभासोऽरुणतया च विभिन्नत्वात्कथं पूर्वरूपप्राप्तिरिति वाच्यं, पीतारुणवर्णयोरैक्यवर्णनस्य कविसमयसिद्धत्वात् । तथाचोक्तमलंकारशेखरे