________________
244
अलङ्कारमणिहारे
अथ तद्गुणसरः (७८)
स्वगुणस्य परित्यागात्तद्गुणोऽन्यगुणग्रहः ।
स्वगुणस्य परित्यागपूर्वकं स्वसन्निहितवस्त्वन्तरसंबन्धिगुणग्रहणं तद्गुणः । तस्य गुणोऽस्यास्तीत्यन्वर्थसंज्ञोऽयम् ॥
I
यथावा
इन्दीवरसुषुमाभरमन्दीकृतिनिपुणतावकाङ्गरुचा । रञ्जित इह वृषगिरिरयमञ्जननामानुरूपमुल्लसति ।। १८१२॥
यथावा
मरकतनिभनिजरुचिविच्छुरितं गरुडं जना - समारूढम् । सकलं जगद्विजेतुं शुकमधिरूढं स्मरं हरिमजानन् ॥ १८१३ ॥
यथावा
अधररुचाऽधोऽरुणतममसितमुपर्यक्षितारकारुचिभिः । नासामौक्तिकमेतद्भासा गुञ्जायतेऽम्ब भवदीयम् ॥ १८१४ ॥
यथावा
सरसि निविशमानायां सलिलविहारे हिरिण्यवर्णायाम | त्वय्यापः प्रणयन्ति श्रुतिकथितं स्वं हिरण्यवर्णात्वम् ॥ १८१५ ॥