SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ २ उक्ष्योतः] ध्वन्यालोकः। . एवं ध्वनेरुपमादीनां रसवदलंकारस्य च विभक्तविषयता भवति । यदि तु चेतनानां वाक्यार्थीभावो रसायलंकारस्य विषय इत्युच्यते तैयु झ्यार्थाभिव्यञ्जनसामर्थ्याधानमिति । वस्तुतो ध्वन्यात्मैवालंकार्यः । कटककेयूरादिभिरपि हि शरीरसमवायिभिश्चेतन आत्मैव तत्तच्चित्तवृत्तिविशेषौचित्यसूचनात्मतयालंकियते । तथाह्यचेतनं शवशरीरं कुण्डलायुपेतमपि न भाति । अलंकार्यस्याभावात् । यतिशरीरं कटकादियुक्तं हास्यावहं भवति । अलंकार्यस्यानौचित्यात् । न च देहस्य किंचिदनौचित्यमिति वस्तुत आत्मैवालंकार्यः । अहमलंकृत इत्यभिमानात् । रसादेरलंकारताया इति व्यधिकरणषष्ठ्यौ । रसादेर्यालंकारता तस्याः स एव विषयः । एतदनुसारेणैव पूर्वत्रापि वाक्ये योज्यम् । रसादिकर्तृकस्यालंकरणक्रियात्मनो विषय इति । एपमिति । अस्मदुक्तेन विषयविभागेनेत्यर्थः । यत्र रसस्यालंकार्यता रसान्तरं चाङ्गभूतं नास्ति तत्र शुद्धा एवोपमादयः । तेन सृष्ट्या नोपमादीनां विषयापहार इति भावः । रसवदलंकारस्य चेति । अनेन भावाद्यलंकारा अपि प्रेयस्व्यूर्जखिसैमाहितादयो गृह्यन्ते । तंत्र भावालंकारस्य शुद्धस्योदाहरणं यथा-'तव शतपत्रपत्रमृदुताम्रतलश्वरणश्चलकलहंसनूपुरकलध्वनिना मुखरः । महिषमहासुरस्य शिरसि प्रसभं निहितः कनकमहामहीध्रगुरुतामयमम्ब गतः ॥' इत्यत्र देवतास्तोत्रे वाक्यार्थीभूते वितर्कविस्मयादिभावस्य चारुत्वहेतुतेति तस्याङ्गलाद्भावालंकारस्य विषयः । रसाभासस्यालंकारता यथा ममैव स्तोत्रे–'समस्तगुणसंपदः सममलंक्रियाणां गुणैर्भवन्ति यदि भूषणं तव तथापि नो शोभसे । शिवं हृदयवल्लभं यदि यथा तथा रजयेस्तदेव ननु वाणि ते जगति सर्वलोकोत्तरम् ॥' अत्र हि परमेशस्तुतिमात्रं वाचः परमोपादेयमिति वाक्यार्थे शृङ्गाराभासश्चारुखहेतुः श्लेषसहितः । नॅह्ययं पूर्णः शृङ्गारो नायिकाया निर्गुणत्वे निरलंकारत्वे च भवति । 'उत्तमयुवप्रकृतिरुज्ज्वलवेषात्मकः' इति चाभिधानात् । भावाभासाङ्गता यथा-'स पातु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु । लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः खकान्तानयनोत्पलेषु ॥' अत्र रौद्रप्रभृतीनामनुचितस्त्रासो भगवत्प्रभावकारणकृत इति भावाभासः । एवं तत्प्रशमस्याङ्गलमुदाहार्यम् । मे मतिरित्यनेन यत्परमतं सूचितं तदूषणमुपन्यस्यति-यदीत्यादिना । परस्य चायमाशयः-अचेतनानां चित्तवृत्तिरूपरसाद्यसंभवात्तद्वर्णनेन रसवदलंकारस्यानाशयखात्तद्विभक्त एवोपमादीनां विषय १. 'विविक्त' ग. २. 'इति' ग-पुस्तके नास्ति. ३. 'तदुपमा क-ख. १. 'दानमिति' क-ख. २. 'सूचनायात्मतया' क-ख. ३. 'समाहितलक्षणादयो' ग. ४. 'तत्र' ग-पुस्तके नास्ति. ५. 'रव' क-ख. ६. 'कस्य' ग. ७. 'न हृदयं' क-ख. ८. 'पूर्वः' ग. ९. 'तद्वर्णने रसवदायलंकारस्य' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy