________________
२ उक्ष्योतः ] ध्वन्यालोकः।
६५ हि तस्य कदाचिद्भवति । तदा चार्थशक्त्युद्भवानुस्खानरूपमेदेनेति वक्ष्यते । आत्मशब्दः खभाववचनः प्रकारमाह । तेन (सादिर्योऽर्थः स ध्वनेरक्रमो नाममेदः । असंलक्ष्यक्रम इति यावत् । ननु किं सर्वदैव रसादिरों ध्वनेः प्रकारः । नेत्याह-भासमान इति । किं तु यदाङ्गिखेन प्रधानसेनावभासमानः । एतच्च सामान्यलक्षणे गुणीकृतखार्थावित्यत्र यद्यपि निरूपितम् , तथापि रसवदाद्यलंकारप्रकाशनावकाशदानायोदितम् । स च रसादिध्वनिव्यवस्थित एव । नहि तच्छून्यं काव्यं किंचिदस्ति । यद्यपि चे रसेनैव सर्व जीवति काव्यम् , तथापि तस्य रसस्यैकघनचमत्कारात्मनोऽपि कुतश्चिदंशात्प्रयोजकीभूतादधिकोऽसौ चमत्कारोऽपि भवति । तत्र यदा कश्चिदुद्रिक्तावस्थां प्रतिपनो व्यभिचारी चमत्कारातिशयप्रयोजको भवति तदा भावध्वनिः । यथा-'तिष्ठेत्कोपवशाप्रभावपिहिता दीर्घ न सा कुप्यति वर्गायोत्पतिता भवेन्मयि पुनर्भावामस्या मनः । तां हां विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनी सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥' अत्र हि विप्रलम्भरसंसद्भावेऽपीयति वितर्काख्यव्यभिचारिचमक्रियाप्रयुक्त आखादातिशयः । व्यभिचारिण उदयस्थित्यपायत्रिधर्मकाः । यदाह-'विविधमाभिमुख्येन चरन्तीति व्यभिचारिणः' इति । तत्रोदयावस्थाप्रयुक्तः कदाचित् , यथा'याते गोत्रविपर्यये श्रुतिपथं शय्यामनुप्राप्तया निर्यातं परिवर्तनं पुनरपि प्रारब्धमङ्गीकृतम् । भूयस्तत्प्रकृतं कृतं च शिथिलक्षिप्तैकदोर्लेखया तन्वङ्ग्या न तु पारितः स्तनभरः ऋष्टुं प्रियस्योरसः ॥' अत्र हि प्रणयकोपस्यैवोज्जिगमिषयैव यदवस्थानं न तु पारित इत्युदयावकाशनिराकरणात्तदेवांखादजीवितम् । स्थितिः पुनरुदाहृता 'तिष्ठेत्कोपवशात्-' इत्यादिना । क्वचित्तु व्यभिचारिणः प्रशमावस्थया प्रयुक्तश्चमत्कारः । यथोदाहृतं प्राक् ‘एकस्मिन्शयने पराङ्मुखतया-' इति । अयं तत्प्रशम इत्युक्तः । अत्र चेाविप्रलम्भस्य रसस्यापि प्रशम इति शक्यं योजयितुम् । क्वचित्तुं व्यभिचारिणः संधिरेव चर्वणास्पदम् । यथा-'ईसेंसु केसुम्भिआए मह चुम्बिउ जेण । अमिअरसो घोण्टाण पडिजाणिउ तेण ॥ (१) त्यक्ते तु कोपे कोपकषायगद्गदमन्दरुदिताया
१. 'तथा' ग. २. 'मेदतेति' क-ख. ३. 'रसादिभ्योऽर्थः' क-ख. ४. 'ननु गपुस्तके नास्ति. ५. 'सदैव' ग. ६. 'भासमान इति' ग-पुस्तके नास्ति. ७. 'यदगिलेन' क-ख. ८. 'गुणीभूत' क-ख. ९. 'रसवदाद्यलंकारतत्त्वप्रकटनायावकाशदानायानूदितम्' क-ख. १०. 'काव्यं' क-ख-पुस्तकयो स्ति. ११. 'च' ग-पुस्तके नास्ति. १२. 'अपि' ग-पुस्तके नास्ति. १३. 'अप्रतिपन्नो' ग. १४. 'अदर्शनं' ग. १५. 'रस' क-ख-पुस्तकयो स्ति. १६. 'इति' क-ख-पुस्तकयो स्ति. १७. 'अनुप्राप्तयोर्निर्वातं' ग. १८. 'निातं' क. १९. 'शिथिलं' ग. २०. 'आह्लाद' ग. २१. 'योऽयं' ग. २२. 'तु' क-ख-पुस्तकयो स्ति. २३. 'सुरसुंभिआइ सहु चुबिते जेण अपहु अन्वो? डाहजतजाणित्ते तेन' क-ख. २४. 'त्यक्तेऽपि कोपकषाय' क-ख.
७ ध्व. लो.