________________
काव्यमाला। तदापि सामान्यस्य प्राधान्ये सामान्ये सर्वविशेषाणामन्तर्भावाद्विशेषस्थापि प्राधान्यम् । निमित्तनिमित्तिभावे चायमेव न्यायः । यदा तु सारूप्यमात्रवैशेनाप्रस्तुतप्रशंसायामप्रकृतप्रकृतयोः संबन्धस्तदाप्यप्रस्तुत सरूपस्याभिधीयमानस्य प्राधान्येनाविवक्षायां ध्वनावेवान्तःपातः । इतरथा त्वलंकारान्तरमेव । तदयमत्र संक्षेपः
रात्महृदयं प्रच्छाद्य यत्क्रीडसे । यस्त्वामाह जडं ततः सहृदयंमन्यत्वदुःशिक्षितो मन्येऽमुष्य जैडात्मनः स्तुतिपदं त्वत्साम्यसंभावनात् ॥' कश्चिन्महापुरुषो वीतरागोऽपि सरागवदिति न्यायेन गाढविवेकालोकतिरस्कृततिमिरप्रतानोऽपि लोकमध्ये खात्मानं प्रच्छादयल्लोकं च वाचालयन्नात्मन्यप्रतिभासमेवाङ्गीकुर्वस्तेनैव लोकेन मूर्योऽयमिति यदावज्ञायते तदा तदीयं लोकोत्तरं चरितं प्रस्तुतं व्यङ्ग्यतया प्राधान्येन प्रकाश्यते । जडोऽयमिति घुद्यानेन्दूदयादि वो लोके नावज्ञायते । स च प्रत्युत कस्यचिद्विरहिण औत्सुक्यचिन्तादूयमानमानसतामन्यस्य प्रहर्षपरवशतां करोतीति हठादेव लोकं यथेच्छं विकारकारणादिभिर्नर्तयति । न च तस्य हृदयं केनापि ज्ञायते कीदृगयमिति । प्रत्युत महागम्भीरोऽतिविदग्धः सुष्टुगर्वहीनोऽतिशयेन क्रीडाचतुरः सपदि लोकेन जड इति तत एव कारणात्प्रत्युत वैदग्ध्यसंभावनानिमित्तात्संभावितः । आत्मा च यत एव कारणात्प्रत्युत जाज्येन संभाव्यस्तत एव सहृदयः संभावितस्तदस्य लोकस्य जडोऽसीति यद्युच्यते तदा जाज्यमे. वंविधस्य भावव्रातस्याविदग्धस्य प्रसिद्धमिति सा प्रत्युत स्तुतिरिति जडादपि पापी. यानयं लोक इति ध्वन्यते । तदाह-यदा त्विति । इतरथा विति । इतरथैव पुनरलंकारत्वमलंकारविशेषत्वम् । न व्यङ्ग्यस्य कथंचिदपि प्राधान्यमिति भावः । उद्देशे यदादिग्रहणं कृतं समासोक्तीत्यत्र द्वन्द्वे तेन व्याजस्तुतिप्रभृतिरैलंकारवर्गोऽपि संभाव्यमानव्यङ्ग्यानुवेशः संभावितः। तत्र सर्वत्र साधारणमुत्तरं दातुमुपक्रमते-तंदयमत्रेति। कि. यद्वा प्रतिपदं लिख्यतामिति भावः। तत्र व्याजस्तुतिर्यथा-'किं वृत्तान्तैः परगृहगतो किंतु नाहं समर्थस्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यखभावः । गेहेगेहे विपणिषु तथा चत्वरे पानगोठ्यामुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥' अत्र व्यङ्गय स्तुत्यात्मकं यत्तेन वाच्यमेवोपस्क्रियते । यतूदाहृतं केनचित्-'आसीनाथ पितामही तव मही जोता ततो.
१. 'प्राधान्येन' क-ख. २. 'विशेषणानांक-ख. ३. 'वशेनान्यस्य' क-ख. ४. 'प्राधान्यस्य' क-ख.
१. 'स त्वां' क-ख. २. 'जडात्मना' क-ख. ३. 'यथेष्टं ग. ४. 'प्रत्युत' ग. पुस्तके नास्ति. ५. 'अतः' ग. ६. 'लोकस्य' ग-पुस्तके नास्ति. ७. 'अलंकारान्तरत्व. विशेषणत्वं' क-ख. ८. 'अलंकारः सर्वोऽपि' ग. ९. 'व्यङ्गयोऽनु' ग. १०. 'तदयमत्रेति । तदयमिति' काख. ११. 'अत्र' ग. १२. 'माता' ग.