________________
४३ तिरा
काव्यमाला ।'
1393
पर्यायोक्तनिर्दिष्टन्यायात् । अपि च संकरालंकारस्य संकरोक्तिरेव ध्वनिसंभावनां करोति । अप्रस्तुतप्रशंसायामपि यदा सामान्यविशेषभावानिमित्तनिमित्तिभावाद्वाभिधेयप्रतीयमानयोः सममेव प्राधान्यम् । यदा
"
यथा
नामायं ध्वनेर्द्वितीयो भेदः । यच्च पर्यायोक्ते निरूपितं तत्सर्वमैत्राप्यनुसरणीयम् । अथ सर्वेषु संकरप्रभेदेषु व्ययसंभावनानिरासप्रकारं साधारणमाह-अपि चेति । कचिदपि ' संकरालंकारे चेति संबन्धः । सर्वभेदभिन्न इत्यर्थः । संकीर्णतामिश्रत्वं लोलीभावः । तत्र कथमेकस्य प्राधान्यं क्षीरजलवत् । ' अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः । अप्रस्तुतप्रशंसा सा त्रिविधा पैरिकीर्तिता ॥' अप्रस्तुतस्य च वर्णनं प्रस्तुताक्षेपिण इत्यर्थः । स चाक्षैर्पंस्त्रिविधो भवति – सामान्यविशेषभावात्, निमित्तनिमित्तिभावात्, सारूप्याच्च । तत्र प्रथमे प्रकारद्वये प्रस्तुताप्रस्तुतयोस्तुल्यमेव प्राधान्यमिति प्रतिज्ञां करोति - अप्रस्तुतेत्यादिना प्राधान्यमित्यन्तेन । तत्र सामान्यविशेषभावेऽपि द्वयी गतिःसामान्यमप्राकरणिकं शब्देनोच्यते, गम्यते तु प्राकरणिको विशेषः । स एकः प्रकारः । - "अहो संसारनैर्घृण्यमहो दौरात्म्यमापदाम् । अहो निसर्गजिह्मस्य दुरन्ता गतयो विधेः ॥' अत्र हि दैवँखातन्त्र्यं सर्वत्र सामान्यरूपमप्रस्तुतं वर्णितं सत्प्रकृ कापि विनष्टे विशेषात्मनि पर्यवस्यति । तत्रापि विशेषांशस्य सामान्येन व्याप्ताय स् विशेषवद्वाच्यस्य सामान्यस्यापि प्राधान्यम् । न हि सामान्यविशेषयोर्युगपत्प्राधान्यं विरुध्यते । यदा तु विशेषोऽप्राकरणिकः प्राकरणिकं सामान्यमाक्षिपति तदा द्वितीयः प्रकारः । यथा—'एतत्तस्य मुखात्कियत्कमलिनीपत्रे केणं पाथसो यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन्यदस्मादपि । अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने 'शनैस्तत्रो - ड्डीय गतो हहेत्यनुदिनं निद्राति नन्तिः शुचा ॥' अत्रास्थाने महत्त्वसंभावनं सामान्यं प्रस्तुतम् । अप्रस्तुतं तु जलबिन्दौ मणित्वसंभावनं विशेषरूपं वाच्यम् । तत्रापि सामा-न्यविशेषयोर्युगपत्प्राधान्ये न विरोध इत्युक्तम् । एवमेकः प्रकारो द्विमेदोऽपि विचारितः, - यदा तावदित्यादिना विशेषस्यापि प्राधान्यमित्यन्तेन । एतमेव न्यायं निमित्तनैमित्तिका - भावेऽतिदिशंस्तस्यापि द्विप्रकारतां दर्शयति - ( निमित्तेति । ) कदाचिन्निमित्तमप्र
१. 'यत्तु' ग. २. 'अप्यत्र' क- ख. ३. 'संकीर्ण तु' ग. ४. 'अधिकारानपेतस्य ' ग. ५. 'परिकल्पिता' क ख ६. 'त्रिभिः प्रकारैः' ग. ७. 'प्राधान्यं ' ग. ८. 'तत्र च ंग, ९. ‘प्राप्तत्वाद्व्यङ्ग्यं च विशेषवद्वाच्यसामान्यस्यापि ' गं. १०. ' विभाव्यते क-ख. ११. 'आक्षिपतीति तत्र' म. १२. 'कणः पाथसो यो' ग. १३. ' ततः कुत्रोड्डीय गतो मम' ग. १४. 'नार्तः' क. १५. 'अपि' क-ख- पुस्तकयोर्नास्ति.