SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। क्तम्-'प्रसिद्धप्रस्थानातिक्रमिणो मार्गस्य काव्यत्वहानेर्ध्वनिर्नास्ति' इति, तदप्ययुक्तम् । यतो लक्षणकृतामेव स केवलं न प्रसिद्धः, लक्ष्ये तु परीक्ष्यमाणे स एव सहृदयहृदयाह्लादकारि काव्यतत्त्वम् । ततोऽन्यच्चित्रमेवेत्यग्रे दर्शयिष्यामः । यदप्युक्तम्- 'कामनीयकमनतिवर्तमानस्य तस्योक्तालंकारादिप्रकारेष्वन्तर्भावः' इति, तदप्यसमीचीनम् । यतो वाच्यवाचकमात्राश्रयिणि प्रस्थाने व्यङ्ग्यव्यञ्जकसमाश्रयेण व्यवस्थितस्य ध्वनेः कथमन्तर्भावः । वाच्यवाचकचारुत्वहेतवो हि तस्याङ्गभूताः, न तु तदेकरूपा एवेति प्रतिपिपादयिष्यमाणत्वात् । परिकरश्लोकश्चात्र 'व्यङ्गव्यञ्जकसंबन्धनिबन्धनतया ध्वनेः । वाच्यवाचकचारुत्वहेत्वन्तःपातिता कुतः ॥' । ननु यत्र प्रतीयमानस्यार्थस्य वैशयेनाप्रतीतिः स नाम मा भूद्धने अस्य च तदन्यव्यङ्ग्यव्यञ्जकभावसारखान्नास्य तेष्वन्तर्भाव इति । अन्यत्र भावो विषयार्थः । एवं तद्यतिरिक्तः कोऽयं ध्वनिरिति निराकृतम् । लक्षणकृतामेवेति । लक्षणकारप्रसिद्धता विरुद्धो हेतुः । तत एव हि यत्नेन लक्षणीयतालक्ष्यत्वप्रसिद्धलमसिद्धो हेतुः । न च नृत्तगीतादिकल्पम् । तत्काव्यस्य वा क्वापि न किंचित् । चित्रमिति । विस्मयकृद्धृत्तादिवशात् , न तु सहृदयाभिलषणीयचमत्कारसाररसनिःष्पन्दमयमित्यर्थः । काव्यानुकारित्वाद्वा चित्रम् , लेख्यमात्रलाद्वा, कलमात्रखाद्वा । अग्न इति । 'प्रधानगुणभावाभ्यां व्यङ्गस्यैवं व्यवस्थितम् । द्विधा काव्यं ततोऽन्यद्यत्तच्चित्रमभिधीयते ॥' इति तृतीयोहयोते वक्ष्यति । परिकरार्थ कारिकार्थस्याधिकावापं कर्तुं श्लोकः परिकरश्लोकः । यत्रेयलंकारे । वैशयेनेति । चारुतया स्फुटतया चेत्यर्थः । अभिहि १. 'सहृदयाहादि काव्यम्' क-ख. २. 'एव' क-ख-पुस्तकयो स्ति. ३. 'उदितं' ग. ४. 'अप्यनति' ग. ५. 'यतो' ग-पुस्तके नास्ति. ६. 'हि' क-ख-पुस्तकयो स्ति. ७. 'न खङ्गिरूपा' ग. ८. 'अप्यर्थस्य' ग. १. 'एवं' क-ख-पुस्तकयो स्ति. २. 'गीतहास्यादि' क-ख. ३. 'वा क्वापि' ग-पुस्तके नास्ति. ४. 'वृत्त्यादि' क-ख. ५. 'काव्यानुकारकारिताद्वा' ग. ६. 'व्यवस्थिते । द्विधाकाव्येऽन्ततो' ग. ७. 'च वक्ष्यते' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy