SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३२ काव्यमाला। यथा हि' पदार्थद्वारेण वाक्यार्थावगमस्तथा वाच्यार्थप्रतीतिपूर्विका व्यङ्गयस्यार्थस्य प्रतिपत्तिः। इदानी वाच्यार्थप्रतीतिपूर्वकत्वेऽपि तत्प्रतीतेर्व्यङ्ग्यस्यार्थस्य प्राधान्यं यथा न व्यालुप्येत तथा दर्शयति 'खसामर्थ्यवशेनैव वाक्यार्थ पँथयन्नपि । यथा व्यापारनिष्पत्तौ पदार्थो न विभाव्यते ॥ ११ ॥ यथा स्वसामर्थ्यवशेनैव वाक्यार्थ प्रकाशयन्नपि पदार्थो व्यापारनिष्पत्तौ न विभाव्यते विभक्ततया । 'तद्वत्सचेतसां सोऽर्थो वाच्यार्थविमुखात्मनाम् । बुद्धौ तत्वार्थदर्शिन्यां झेटियेवावभासते ॥ १२ ॥ यंत्रा(ना)वभासते । (६) यथात्यन्तशब्दवृत्तज्ञो यो न भवति तस्य पदार्थवाक्यक्रमः।प्रतिपाद्यापि तं दर्शयितुमाहइदानीमित्यादिना । काष्ठाप्राप्तसहृदयभावस्य तु वाक्यार्थवृत्तकुशलस्येव सैन्नपि क्रमोऽभ्यस्ताविनाभावस्मृत्यादिवदसंवेद्यः । न व्यालुप्येतेति । प्राधान्यादेव तत्पर्यन्तानुसरणवरिता मध्ये विश्रान्ति न कुर्वत इति क्रमस्य संतोऽप्यलक्षणं प्राधान्ये हेतुः। खसामर्थ्यमाकाङ्क्षायोग्यतासंनिधयः । विभाव्यत इति । विशब्देन विभक्ततोक्ता । विभक्ततया न भाव्यत इत्यर्थः । अनेन विद्यमान एव क्रमो न संवेद्यत इत्युक्तम् । तेन यत्स्फोटाभिप्रायेणासन्नेव क्रम इति व्याचक्षते तत्प्रत्युत विरुद्धमेव । वाच्येऽर्थे विमुखो विश्रान्तिनिबन्धनं परितोषमलभमान आत्मा हृदयं येषामित्यनेन सचेतसामित्यस्यैवार्थो विभक्तः । सहृदयानामेव तयं महिमास्तु, न तु काव्यस्यासौ कश्चिदतिशय इत्याशङ्याह-यत्रावभासत इति । तेनात्र विभक्ततया न भासते । न तु वाच्यस्यैव सर्वथानवभासः । अत एव तृतीयोड्योते घटप्रदीपदृष्टान्तबलाव्यङ्ग्यप्रतीतिकालेऽपि वाच्यप्रतीतिर्न विघटत इति यद्वक्ष्यति तेन सहास्य ग्रन्थस्य न विरोधः। १. 'हि' क-ख-पुस्तकयो स्ति. २. 'वाक्यार्थस्यावगमः' ग. ३. 'व्यालुप्यते' क-ख. ४. 'प्रतिपादयन्' ग. ५. 'झगिति' ख. ६. 'यत्रावभासते' ग-पुस्तके नास्ति. १. 'वाक्यवृत्त' ग. २. 'असन्नपि क्रमोऽभ्यस्त्रानुभाविनाभावस्मृत्यादिपदसंवेद्यः' ग. ३. 'प्राधान्यादेव रणरणिकलरितया' ग. ४. 'सतोपलक्षणं' क-ख. ५. 'इत्यर्थः' कख. ६. 'अभिव्यक्तः' ग. ७. 'इत्यत्रावभासते' ग. ८. 'विभकता न' क-ख. ९. 'वक्ष्यति' क-ख. .
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy