SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ १ उच्योतः ] ध्वन्यालोकः । क्वचिद्वाच्याद्विभिन्नविषयत्वेन व्यवस्थापितो यथा - 'कस्स व ण होइ रोसो दट्ठूण पिआऍ सव्वणं अहरम् । सभमरउपमग्धाइणि वारिअवामे सहसु एहिम् ॥' R अन्ये चैवंविधाः प्रकारा वाच्याद्विभेदिनः प्रतीयमानभेदाः संभवन्ति । तेषां दिङ्मात्रमेतत्प्रदर्शितम् । द्वितीयोऽपि प्रभेदो वाच्याद्विभिन्नः सप्रपञ्च दर्शयिष्यते । तृतीयस्तु रसादिलक्षणः प्रभेदो वाच्यसामर्थ्या द्भेद इत्याह-व्यवस्थापित इति । विषयभेदोऽपि विचित्ररूपो व्यवतिष्ठमानः सहृदयैर्व्यवस्थापयितुं शक्यत इत्यर्थः । 'कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् । सभ्रमरपद्माघ्राणशीले वारितवामे सहखेदानीम् ॥' कस्य वेति अनीर्ष्यालोरपि । न भवति रोषो दृष्ट्वेति कृत्वापि कुतश्विदेवापूर्वतया प्रियायाः सव्रणमधरं दृष्ट्वावलोक्य | सभ्रमरपद्माघ्राणशीले । शीलं हि कथंचिदपि वारयितुं न शक्यम् । वारिते वारणायां हे चामे, तद(न)ङ्गीकारिणि सहखेदानीम् । उपालम्भपरम्परामित्यर्थः । अत्रायं भावः'काचिदविनीता कुतश्चित्खण्डिताधरा तत्सविधसंविधाने भर्तरि तेमनव लोकमानयेव कयाचिद्विदग्धसख्या तेद्वाच्यतापरिहारायैर्वैमुच्यते । सहस्वेदानीमिति वाच्यमविनयवतीविषयम् । भर्तृविषयं तु अपराधो नास्तीत्यावेद्यमानं व्यङ्ग्यम् । तस्यां च प्रियतमेन गाढमुपालभ्यमानायां तद्व्यलीकशङ्कितप्रातिवेश्मिकलोकविषयं चाविनयप्रच्छादनेन प्रत्यायनं व्यङ्ग्यम् । तत्पढ्यां च तदुपालम्भतदविनय प्रहृष्टायां सौभाग्यातिशयख्यापनं प्रियाया इति शब्दबलादिति सपत्नीविषयं व्यङ्ग्यम् । सपत्नीमध्ये इयत्खलीकृतास्मीति लाघवमात्मनि ग्रहीतुं न युक्तम् । प्रत्युतायं बहुमानः । सहख शोभखेदानीमिति सखी - विषयं सौभाग्यप्रख्यापनं व्ययम् । अद्येयं तव प्रच्छन्नानुरागिणी हृदयवल्लमेत्थं रक्षिता । पुनः फ्रँकटरदनदंशनविधिर्न विधेय इति तचौर्य कामुकविषयसंबोधनं व्यङ्ग्यम् । इत्थं मयैतदपह्नुतमिति स्ववैदग्ध्यख्यापनं तटस्थविदग्धलोकँविषयं व्यङ्ग्यमिति । तदेतदुक्तं व्यवस्थापितशब्देन । अग्र इति द्वितीयोयोते 'असंलक्ष्यक्रमव्यङ्ग्यः क्रमेणोद्दयोतितः परः' इति विवक्षितान्यपरवाच्यस्य द्वितीयप्रभेदवर्णनावसरे । तथाहि विधिनिषेधतदुभयात्मना रूपेण संकलय्य वस्तुध्वनिः संक्षेपेण सुवचनः, तथा नालंकारध्वनिः । अलंकाराणां भूयस्त्वात् । तत एवोक्तम्- 'सप्रपञ्चं' इति । तृतीयस्त्विति । तुशब्दो १. 'क्वचिद्वाच्याद्' ग. १. ‘पद्माघ्रायिणि’ क. २. 'तदनवलोक्यमानयैव' क-ख. ३. 'तदनार्यपरि' ग ४. 'एतत्' क- ख. ५. 'इयत्ता' क-ख. ६. 'प्रकटाधरदंशन विधिरत्र न युक्तः प्रत्युतायं बहुमानः' इति ग. ७. 'लोक' क-ख-पुस्तकयोर्नास्ति.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy