SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। कैचिद्वाच्ये प्रतिषेधरूपे विधिरूपो यथा 'अत्ता एत्थ णिमज्जइ एत्थ अहं दिअस पलोएहि । मा पहिअ रत्तिअन्धअ सेज्जाए महँण मज्जहिसि ॥' भीरुधार्मिकसब्रह्मचारी सहृदय एव । अथ तद्विशेषोऽपि सहकारी कल्प्यते तर्हि वक्तप्र:तिपत्तप्रतिभाप्राणितो ध्वननव्यापारः किं न सह्यते । किं च वस्तुध्वनि दूषयता रसध्वनिस्तदनुग्राहकः समर्थ्यत इति सुठतरां ध्वनिध्वंसोऽयम् । यदाह-'क्रोधोऽपि देवस्य वरेण तुल्यः' इति । अथ रसस्यैवेयता प्राधान्यमुक्तं तत्को न सहते । अथ वस्तुमात्रध्वनेरेतदुदाहरणं न युक्तमित्युच्यते तथापि काव्योदाहरणखाद्भावप्यत्र ध्वनी स्तः । को दोषः । अपि चोक्तनीया संभोगाभिलाषविभावसंकेतस्थानोचितविशिष्टकाक्काद्यनुभावशबलनोचितशृङ्गाररसानुवेधः । रसस्यालौकिकवात् । तावन्मात्रादेवं भेदस्यानुगमात् । प्रथमं निर्विवादसिद्धविविक्तविधिनिषेधप्रदर्शनाभिप्रायेण चैतद्वंस्तुध्वनेरुदाहरणं दत्तम् । यस्तु ध्वनिव्याख्यानोद्यतस्तात्पर्यशक्तिमेव विवक्षासूचकत्वमेव वा ध्वननमवोचत्स नास्माकं हृदयमावर्जयति । यदाहुः-'भिन्नरुचिर्हि लोकः' इति । तदेतदने यथायथं प्रतरिष्याम इत्यास्तां तावत् । भंमेति अतिसृष्टोऽपि प्राप्तस्ते भ्रमणकालः । धार्मिकेति कुसुमाग्रुपकरणार्थ युक्तं ते भ्रमणम् । विश्रब्ध इति शङ्काकारणवैकल्यात् । स इति यस्ते भयप्रकम्पप्रामङ्गलकामकृत । अद्येति दिष्ट्या वर्धस इत्यर्थः । मारित इति पुनरस्यानुत्थानम् । तेनेति यः पूर्व कर्णोपकर्णिकया वयाप्याकर्णितो गोदावरीकच्छगहने प्रतिवसतीति । पूर्वमेव हि तद्रक्षायै तत्त्वतयोपश्रावितः स चाधुना तु दृप्तवात्ततो गहनान्न निःसरतीति प्रसिद्धगोदावरीतीरंपरिसरानुसरणमपि तावत्कथाशेषीभूतं का कथा तल्लतागहनप्रवेशशङ्कीया इति भावः । श्वश्रूरत्र शेते अथवा निमज्जति अत्राहं दिवसकं प्रलोकय । मा पथिक राज्यन्ध शय्यायाममा॑वयोर्मात्रीः ॥ अत्र शयिष्ठा वा।' महँण इति निपातोऽनेकार्थवृत्तिरत्रावयोरित्यर्थे न तु ममेति । एवं हि विशेषवचनमेव शङ्काकारि - १. 'क्वचित्प्रतिषेधे विधिरूपो' ग. १. 'भीरुधार्मिकस्य सब्रह्मचारिहृदय एव' क-ख. २. 'इयत्ता' क. ३. 'तत्केन सह्यते' क-ख. ४. 'कार्योदाहरणवादावपि ध्वनी स्ताम्' क-ख. ५. 'अनुभावं खवलनोदित' ग. ६. 'एव चानुपगमात्' ग. ७. रसध्वनेः' ग. ८. 'यत्तु' ग. ९. 'इति' ख-पुस्तके नास्ति, 'इति वदताने यथायथं' ग. १०. 'ब्रूमेति' ग. ११. 'असि' ग. १२. 'कर्णाकर्णिकया' ग. १३. 'यत्त्वयापश्रावितोऽसावधुना' क. 'एतत्त्वया' ख. १४. 'तीर' क-ख-पुस्तकयो स्ति. १५. 'आशङ्कयेति' ग. १६. 'आवयोः शयिष्ठाः । हे इति निपातोऽनेकार्थवृत्तिरत्र न तु ममेति' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy