________________
३ उक्ष्योतः] ध्वन्यालोकः ।
२२१ प्रकारोऽस्ति यत्र रसादीनामविप्रतिपत्तिः । किं तु यदा रसभावादिविवक्षाशून्यः कविः शब्दालंकारमर्थालंकारं वोपनिबध्नाति तदा तद्विवक्षापेक्षया रसादिशून्यतार्थस्य परिकल्प्यते । विवक्षोपारूढ एव हि काव्ये शब्दानामर्थः । वाच्यसामर्थ्यवशेन च कविविवक्षाविरहेऽपि तथाविधे विषये रसादिप्रतीतिर्भवन्ती परिदुर्बला भवतीत्यनेनापि प्रकारेण नीरसत्वं परिकल्प्य चित्रविषयो व्यवस्थाप्यते । तदिदमुक्तम्
'रसभावादिविषयविवक्षाविरहे सति । अलंकारनिबन्धो यः स चित्रविषयो मतः ॥ रसादिषु विवक्षा तु स्यात्तात्पर्यवती यदा।
तदा नास्त्येव तत्काव्यं ध्वनेर्यत्र न गोचरः ॥' ऐतच्च चित्रं कवीनां विशृङ्खलगिरां रसादितात्पर्यमनपेक्ष्यैव काव्यप्रवृत्तिदर्शनादस्माभिः परिकल्पितम् । इदानींतनानां तु न्याय्ये काव्यनयव्यवस्थापने क्रियमाणे नास्त्येव ध्वनिव्यतिरिक्तः काव्यप्रकारः । यतः परिपाकवतां कवीनां रसादितात्पर्यविरहे व्यापार एव न शोभते । रसादितात्पर्ये
वक्तव्यः । अन्यस्य वो खकेलिवृत्तान्ततुल्यस्येहाभिधानायोगात् कविश्चेद्गोचरीकरोति नूनममुना प्रीतिर्जनयितव्या । सा चावश्यं विभावानुभावव्यभिचारिपर्यवसायिनीति भावः । किं त्विति । 'विवक्षा तत्परत्वेन नाङ्गिदेन कथंचन' इत्यादिर्योऽलंकारनिवेशने समीक्षाप्रकार उक्तस्तं यदा नानुसरतीत्यर्थः । रसादिशून्यतेति । नैव यत्र रसप्रतीतिरस्ति यथा पाकानभिज्ञसूदविरचिते मांस्पाकविशेषे । ननु वस्तुसौन्दर्यादवश्यं भवति कदाचित्तथा स्वादोऽकुशलकृतायामपि शिखरिण्यामिवेत्याशझ्याह-वाच्येत्यादि । अनेनापीति । पूर्वे सर्वथा तच्छून्यत्वमधुना तु दौर्बल्यमित्यपिशब्दस्यार्थः । अज्ञकृतायां च शिखरिण्यामहो शिखरिणीति न तज्ज्ञानां चमत्कारः । अपि तु दधिगुडमरिचं चैतदसमञ्जसयोजितमिति वक्तारो भवन्ति । उक्तमिति । मयैवेत्यर्थः । अलंकाराणां शब्दार्थोभयरूपाणां निबन्ध इत्यर्थः । ननु ‘तचित्रमभिधीयते' इति किमनेनोपदिष्टेन । अकाव्यरूपं हि तदिति कथितम् । हेयतया तदुद्दिश्यत इति चेत् , घटे कृते कविन भवतीत्येतदपि वक्तव्यमित्याशय कविभिः खलु तत्कृतमतो हेयतयोपदिश्यत इत्येतनिरूपयतिएवञ्चेत्यादिना । परिपाकवतामिति । शब्दार्थविषयो रसौचित्यलक्षणः परिपाको
१. 'सामर्थ्येन कवि' ग. २. 'रसभावप्रतीतिः' क-ख. ३. 'यत्तु' ग. ४. 'यतश्च' क-ख. ५. 'विशृङ्खलं नितरां' ग. ६. 'अनवेक्ष्यैव.' ग. १. 'वासुकिवृत्तान्तस्येह' ग. २. 'भवति तथाखादोऽत्र' ग.
२. ध्व० ला.