SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ३ उड्योतः] ध्वन्यालोकः। १९९ च्यवाचकतालक्षणसंबन्धाभावात् । नन्वनेन न्यायेन सर्वेषामेवालौकिकानां वाक्यानां ध्वनिव्यवहारः प्रसक्तः । सर्वेषामेवानेन न्यायेन व्यञ्जकत्वात् । सत्यमेतत् । किं तु वैऋभिप्रायप्रकाशनेन यदि व्यञ्जकत्वं तत्सर्वेषामेव लौकिकानां वाक्यानामविशिष्टम् । ननु वाचकत्वान्न भिद्यते, व्यङ्ग्यं हि तत्र नान्तरीयकतया व्यवस्थितम् । न तु विवक्षितत्वेन व्यङ्गयस्य व्यवस्थितिः । तद्व्यञ्जकत्वं ध्वनिव्यवहारस्य प्रयोजकम् । यत्त्वभिप्रायविशेषरूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद्भवति विवक्षितं तात्पर्येण प्रकाश्यमानं यत् । किंतु तदेव केवलमपरिमितविषयस्य ध्वनिव्यवहारस्य न प्रयोजकम् । व्यापकत्वात् । तथा दर्शितभेदत्रयरूपं तात्पर्येण द्योत्यमानमभिप्रायरूपमनभिप्रायरूपं च सर्वमेव ध्वनिव्यवहारस्य प्रयोजकमिति यथोक्तव्यञ्जकत्वविशेषध्वनिलक्षणे नातिव्याप्तिने चाव्याप्तिः । तस्माद्वाक्यतत्त्वविदां मते न तावयञ्जकलक्षणः शाब्दो व्यापारः (न) विरोधी प्रत्युतानुगुण एव लक्ष्यते । परिनिश्चितनिरपभ्रंशशब्दब्रह्मणां विपश्चितां मतमाश्रित्यैव प्रवृत्तोऽयं ध्वनिव्यवहार इति तैः सह किं विरोधाविरोधौ चिन्त्येते । सहेति । अनियततया नैसर्गिकवाभावादिति भावः । नान्तरीयकतयेति । गामानयेति श्रुतेऽप्यभिप्राये व्यक्ते तदभिप्रायविशिष्टोऽर्थ एवाभिप्रेत आनयनादिक्रियायोग्यो न खमिप्रायमात्रेण किंचित्कृत्यमिति भावः । विवक्षितत्वेनेति । प्राधान्येनेत्यर्थः । यत्त्विति । ध्वन्युदाहरणेष्विति भावः । काव्यवाक्येभ्यो हि न नयनानयनाद्युपयोगिनी प्रतीतिरभ्यर्थ्यते अपि तु प्रतीतिविश्रान्तिकारिणी। सा चाभिप्रायनिष्ठवे नाभिप्रेतवस्तुपर्यवसाना । नन्वेवमभिप्रायस्यैव व्यङ्ग्यत्वात्रिविधं व्यङ्ग्यमिति यदुक्तं तत्कथमित्याह । एवं मीमांसकानां नात्र विमतिर्युक्तेति प्रदर्श्य वैयाकरणानां नैवात्र सास्तीति दर्शयति-परिनिश्चितेति । परिनिश्चितं प्रमाणेन स्थापितं निरपभ्रंशं गलितभेदप्रपञ्चतया निरुपपत्यंशं विद्यार्थसंस्काररहितं शब्दाख्यं प्रकाशपरामर्शनखभावं ब्रह्म व्यापकत्वेन बृहद्विशेष. शक्तिनिर्भरतया च बृंहितं विश्वनिर्माणशक्तीश्वरत्वाच्च बृंहणम् । यै (ते) रिति । एत. दुक्तं भवति–वैयाकरणास्तावद्ब्रह्मपदेनान्यत्किंचिदिच्छन्ति तत्र का कथा वाचकत्वव्य'. १. 'वभिप्रायविस्पष्टार्थप्रतिपादनेन' ख. २. 'यदिदं' ख. ३. 'तत्तु वाचक' क, 'यत्तु वाचक' ख. ४. 'न विवक्षितत्वेन यस्य तु' क-ख. ५. 'शब्दार्थाभ्यामेव' क-ख. ६. 'प्रकाशमानं सत्' क-ख. ७. 'तत्तु यथादर्शितं' क-ख. १. 'नयनानुयानाद्यु' क, 'न नयनाद्यु' ग. २. 'निष्ठतयैव' क, 'निष्ठतैब' ग. ३. 'इत्याशङ्कयाह' क-ख. ४. 'गलितप्रपञ्चतया विद्यारहितं शब्दार्थ ग. 'बृहद्विश्वनिर्भर' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy