SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ३ उयोतः ध्वन्यालोकः। कस्यापि गीतशब्दादे रसादिलक्षणार्थावगमदर्शनात् । अशब्दस्यापि चेष्टादेरर्थाविशेषप्रकाशनप्रसिद्धेः । तथाहि 'वीडायोगान्नतवदनया-' इत्यादिश्लोके चेष्टाविशेषः सुकविनार्थप्रकाशनहेतुः प्रदर्शित एव । तमाद्भिनविषयत्वाद्भिन्नरूपत्वाच्च खार्थाभिधायित्वमर्थान्तरावगमहेतुत्वं च शब्दस्य । यत्तयोः स्पष्ट एव भेदः । विशेषश्चेन्न तहीदानीमवगमनस्याभिधेयसामर्थ्याक्षिप्तस्यार्थान्तरस्य वाच्यत्वव्यपदेश्यता । शब्दव्यापारगोचरत्वं तु तस्यामाभिरिष्यत एव । ततु व्यङ्गयत्वेनैव न वाच्यत्वेन । प्रसिद्धाभिधानान्तरसंबन्धयोग्यत्वेन च तस्यार्थान्तरस्य च प्रतीतेः । शब्दान्तरेण खार्थाभिधायिना यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता । न च पदार्थवाक्यार्थ तिषिद्धमनु प्रतिहेतुमाह-अवाचकस्यापीति । यदेव वाचकत्वं तदेव गमकत्वं यदि स्यादवाचकस्यापि गमकत्वमपि न स्यात् गमकत्वेनैव वाचकत्वमपि न स्यात् । न चैतदुभयमपि गीतशब्दे शब्दव्यतिरिके चाधोवक्रवकुचकम्पनबाष्पावेशादौ तस्यावाचकस्याप्यवगमकारिखदर्शनादवगमकारिणोऽपि वाचकत्वेन प्रसिद्धलादिति तात्पर्यम् । एतदुपसंहरति-तस्माद्भिन्नेति । न तहीति । वाच्यत्वे ह्यमिधाव्यापारविषयता न तु व्यापारमात्रविषयता । तथात्वे तु सिद्धसाधनमित्येतदाह-शब्दव्यापारेति । ननु गीतादौ मा भूद्वाचकवमिह बर्थान्तरेऽपि..........पकत्वमेवोच्यते । किं हि तद्वाचकत्वं स........ शङ्कोच्यते इत्याह-प्रसिद्धति । (शब्दान्तरेण) तस्यार्थान्तरस्य यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता न वाचकत्वोक्तिः शब्दस्य, नापि वाच्यत्वोक्तिरर्थस्य तत्र युक्ता । वाचकत्वं हि समयवशादव्यवधानेन प्रतिपादकत्वं यथा तस्यैव शब्दस्य खार्थे । तदाह-वार्थाभिधायिनेति । वाच्यत्वं हि समयबलेन निर्व्यवधानं प्रतिपाद्यत्वं यथा तस्यैवार्थस्य शब्दान्तरं प्रति तदाह-प्रसिद्धति । प्रसि द्धेन वाचकतयाभिधानान्तरेण यः संबन्धो वाच्यत्वं तदेव यत्र तद्योग्यत्वं तेनोपलक्षितस्य । न चैवंविधं वाचकसमर्थं प्रति शब्दस्येहास्ति नापि तं शब्दं प्रति तस्यार्थस्योक्तरूपत्वम् । वाच्यत्वं यदि नास्ति तर्हि कथं तस्य विषयीकरणमुक्तमित्याशक्ष्याह-प्रतीतेरिति । अथ च प्रतीयते सोऽर्थो न च वाच्यवाचकव्यापारेणेति विलक्षण एवासौ व्यापार इति यावत् । नन्वेवं मा भूद्वाचकशक्तिस्तथापि तात्पर्यशक्तिर्भविष्यतीत्याशझ्याह-न चेति । कैश्चिदिति वैयाकरणैः । थैरपीति भट्टप्रमृ १. 'अवगमनीयस्य' क-ख. २. 'विषयत्वं' क-ख. ३. 'श्लेषान्तरेण' क. १. 'तदवगमकमिन्नोऽपि' ग. २. 'वाच्ये क. ३. 'इत्याशझ्याह' क-ख अत्र टीकायां त्रिष्वपि पुस्तकेष्वतीव पौर्वापर्यमस्ति. अस्माभिस्तु बहुपुस्तकानुरोधात्तथैव स्थापितम्.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy