SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ३ उक्ष्योतः] ध्वन्यालोकः। १८१ विज्ञायेत्थं रसादीनामविरोधविरोधयोः। . विषयं सुकविः काव्यं कुर्वन्मुह्यति न कचित् ॥ ३१॥ इत्थमनेनानन्तरोक्तेन प्रकारेण रसादीनां रसभावतदाभासानां परस्परं विरोधस्याविरोधस्य च विषयं विज्ञाय सुकविः काव्यविषये प्रतिभातिशययुक्तः काव्यं कुर्वन्न कचिन्मुह्यति । एवं रसादिषु विरोधाविरोधनिरूपणस्योपयोगित्वं प्रतिपाद्य व्यञ्जकवाच्यवाचकनिरूपणस्यापि तद्विषयस्य तत्प्रतिपाद्यते वाच्यानां वाचकानां च यदौचित्येन योजनम् । रसादिविषयेणैतत्कर्म मुख्यं महाकवेः ॥ ३२ ॥ वाच्यानामितिवृत्तविशेषाणां वाचकानां च तद्विषयाणां रसादिविषयेणौचित्येन यद्योजनमेतन्महाकवेर्मुख्यं कर्म । अयमेव हि महाकवेर्मुख्यो व्यापारो यद्रसादीनेव मुख्यतया काव्यार्थीकृत्य तद्व्यक्त्यनुगुणत्वेन शब्दानामर्थानां चोपनिबन्धनम् । ___एतच्च रसादितात्पर्येण काव्यनिबन्धनं भरतादावपि सुप्रसिद्धमेवेति प्रतिपादयितुमाह मत्ताङ्गनापाङ्गभङ्गस्य लोलशृङ्गारं प्रति संभाव्यमानविभावानुभावलेनाङ्गस्य लोलतायामुपमानतोक्तेति प्रियतमाकटाक्षा हि सर्वस्याभिलषणीया इति तत्प्रतीत्या प्रवृत्तिमान् गुडजिबिकया प्रसक्तानुप्रसक्तवस्तुतत्त्वसंवेदनेन वैराग्ये पर्यवस्यति विनेयः । तदेतदुपसंहरन्नस्योक्तस्य प्रेकरणस्य फलमाह-विज्ञायेत्थमिति । स्पष्टम् ।.......... रसादिविषयव्यञ्जकानि यानि वाच्यानि विभावादीनि वाचकानि च सुप्तिङादीनि तेषां यनिरूपणं तस्येति । तद्विषयस्येति रसादिविषयस्य । तदिति उपयोगिवं मुख्यमिति । 'आलोकार्थी-' इत्यत्र यदुक्तं तदेवोपसंहृतम् । महाकवेरिति सिद्धवत्फलनिरूपणम् । एवं हि महाकविलं नान्यथेत्यर्थः । इतिवृत्तविशेषाणामिति । इतिवृतं हि प्रबन्धवाच्यं तस्य विशेषाः प्रागुक्ताः “विभावभावानुभावसंचायौचित्यचारुणः । विधिः कथाशरीरस्य -' इत्यादिना । काव्या कृत्येति । अन्यथा लौकिकशास्त्रीयवाक्यार्थेभ्यः कः काव्यस्य विशेषः । एतच्च निर्णीतमाद्योझ्योते 'काव्यस्यात्मा स एवार्थः-' इत्यत्रान्तरे । एतच्चेति । यदस्माभिरुक्तमित्यर्थः । भरता १. 'परिज्ञाय' ग. २. 'वाचकानां च रसादिविशेषेण' ग. १. 'सेव्यमानं' क-ख. २. 'प्रकारस्य' क-ख. ३. 'तदेवैतदुप-' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy