________________
१७६
काव्यमाला ।
नयपराक्रमादिसंपत्सुतरामुद्द्योतिता भवति । एतच्च मदीयेऽर्जुनचरितेऽर्जुनस्य पातालावतरणप्रसङ्गे वैशद्येन प्रदर्शितम् ।
एवमैकाधिकरण्यविरोधिनः प्रबन्धस्थेन स्थायिना रसेनाङ्गभावगमने निर्विरोधित्वं यथा तथा तद्दर्शितम् । द्वितीयस्य तु तत्प्रतिपादयितुमुच्यतेएकाश्रयत्वे निर्दोषो नैरन्तर्ये विरोधेवान् ।
रसान्तरव्यवधिना रसो व्यजयः (न्यस्यः) सुमेधसा ॥ २६ ॥ यः पुनरेकाधिकरणत्वे निर्विरोधो नैरन्तर्ये तु विरोधी स रसान्तरव्यवधानेन प्रबन्धे निवेशयितव्यः । यथा शान्तशृङ्गारौ नौगानन्दने निवेशितौ । शान्तश्च तृष्णाक्षयसुखस्य यः परिपोषस्तल्लक्षणो रसः प्रतीयत एव । तथा चोक्तम्—
'यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥'
तेन विरोधी यथा - - भयेनोत्साह ऐकाश्रयत्वेऽपि संभवति । कश्चिन्निरन्तरत्वेन निर्व्यवधानत्वेन विरोधी । यथा रत्यादिनिर्वेदः । प्रदर्शितमिति । 'समुत्थिते धनुर्ध्वनौ भयावहे किरीटिनो महानुपलवोऽभवत्पुरे पुरंदरद्विषाम्' इत्यादिना । द्वितीयस्येति । नैरन्तर्यविरोधिनः । तदिति निर्विरोधित्वम् । एकाश्रयत्वेन निमित्तेन यो निर्दोषेण न विरोधी किं तु निरन्तरत्वेन निमित्तेन विरोधे सति स तथाविधविरुद्धसत्तया विरुद्धेन रसान्तरेण मध्ये निवेशितेन युक्तः कार्य इति कारिकार्थः । प्रबन्ध इति बाहुल्यापेक्षम् । मुक्तकेऽपि कदाचिदेवं भवेदपि । यद्वक्ष्यति – 'एकवाक्यस्थयोरपि' इति । यथेति । तत्र हि — 'रागस्यास्पदमित्यवैमि नहि मे ध्वंसीति न प्रत्ययः' इत्यादिनोपक्षेपात्प्रभृति परार्थशरीरवितरणात्मकनिर्वाहणपर्यन्तः शान्तो रसस्तस्य विरुद्धो मलयवतीविषयः शृङ्गारस्तदुभयाविरुद्धमद्भुतमन्तरीकृत्य क्रमप्रसरसंभावनाभिप्रायेण यः कविना निबद्धः 'अहो. गीतमहो वादित्रम्' इति । एतदर्थमेव 'व्यक्तिर्व्यञ्जनधातुना -' इत्यादि नीरसप्रायमप्यत्र निबद्धमद्भुतरसपरिपोषकतयात्यन्तरसरसतावहमिति 'निर्दोषदर्शनाः कन्यकाः' इति च क्रमप्रसरो निबद्धः । यदाहुः - 'चित्तवृत्तिप्रसरप्रसंख्यानाधानः संख्याः पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेनेति । अनन्तरं च निमित्तनैमित्तिकप्रसङ्गागतो यः शेखरकवृत्तान्तोदितहास्यरसोपकृतः शृङ्गारस्तस्य विरुद्धो यो वैराग्यशमपोषको नागीयकले - वरास्थिजालावलोकनादिवृत्तान्तः स मित्रावसोः प्रविष्टस्य मलयवतीनिर्गमनकारिणः ‘संसर्पद्भिः समन्तात्-' इत्यादि काव्य उपनिबद्धः क्रोधव्यभिचार्युपकृतवीररसान्तरितो निवेशितः । ननु नास्त्येव शान्तो रसः । तस्य तु स्थाय्येव नोपदिष्टो मुनिनेत्याशक्याह — शान्तश्चेति । तृष्णानां विषयाणां यः क्षयः सर्वतो निवृत्तिरूपो निरोधस्तदेव १. 'प्रबन्धे' क-ख. २. ' विरोधिनाम्' क-ख. ३. 'नागानन्दे' ग. त्यारभ्य कलामित्यन्तं क-ख-पुस्तकयोर्नास्ति.
४. 'तथे
१. 'एकाश्रयत्वम्' ग.