________________
३ उझ्योतः] ध्वन्यालोकः।
१७३ कर्तव्यमित्ययं प्रथमः परिपोषपरिहारः । उत्कर्षसाम्येऽपि तयोर्विरोधासंभवात् । यथा
'एकन्तो रुअइ पिआ अण्णन्तो समरतूरणिग्धोसो ।
णेहेण रणरसेण अ भडस्स दोलाइ हिअअम् ।' यथा वा'कण्ठाच्छित्त्वाक्षमालावलयमिव करे हारमावर्तयन्ती
कृत्वा पर्यङ्कबन्धं विषधरपतिना मेखलाया गुणेन । मिथ्यामन्त्राभिजापस्फुरदधरपुटव्यञ्जिताव्यक्तहासा
देवी संध्याभ्यसूयाहसितपशुपतिस्तत्र दृष्टा तु वोऽव्यात् ॥' इत्यत्र । ___ अङ्गिरसविरुद्धानां व्यभिचारिणां प्राचुर्येण निवेशनम् निवेशने वा क्षिप्रमेवाङ्गिरसव्यभिचार्यनुवृत्तिरिति द्वितीयः । अङ्गत्वेन पुनःपुनः प्रत्य
येनोक्तमाधिक्यं न कर्तव्यमित्याशङ्कयाह-उत्कर्षसाम्य इति । 'एकतो रोदिति प्रिया अन्यतः समरतूर्यनिर्घोषः । स्नेहेन रणरसेन च भटस्य दोलायितं हृदयम् ॥' [इति च्छाया।] रोदिति प्रियेत्यतो रत्युत्कर्षः । समरतूर्येति भटस्येति चोत्साहोत्कर्षः । दोलायितमिति तयोरन्यूनाधिकतया साम्यमुक्तम् । एतच्च मुक्तकविषयमेव भवति न तु प्रबन्धविषयमिति केचिदाहुस्तच्चासत् । आधिकारिकेऽपीतिवृत्ते त्रिवर्गफले समप्राधान्यस्य संभवात् । तथाहि रत्नावल्यां सचिवायत्तसिद्धिवाभिप्रायेण पृथिवीराज्यलाभ आधिकारिकं फलं कन्यारत्नलाभः प्रासङ्गिकं फलं नायिकाभिप्रायेण तु विपर्यय इति स्थिते मन्त्रिबुद्धौ नायकबुद्धौ च स्वाम्यमात्यबुद्ध्येकत्वात्फलमिति नीत्या एकीक्रियमाणया समप्राधान्यमेव पर्यवस्यति । यथोक्तम्-'कवेः प्रयत्नान्नेतृणां युक्तानाम्' इत्यलमवान्तरेण बहुना । एवं प्रथमं प्रकारं निरूप्य द्वितीयमाह-अङ्गीति । निवेशनमिति । अङ्गभूते रसे इति शेषः । नन्वेवं नासो परितुष्टो भवेदित्याशय मतान्तरमाहनिवेशने वेति । अत एव वाग्रहणमुत्तरपक्षदायं सूचयति न विकल्पम् । तथा चैक एवायं प्रकारः । अन्यथा तु द्वौ स्याताम् । अङ्गिनो रसस्य यो व्यभिचारी तस्यानुवृत्तिरनुसंधानम् । यथा-'कोपात्कोमललोल-' इति श्लोकेऽङ्गिभूतायां रतावद्भिवेन यः क्रोध उपनिबद्धस्तत्र बवा दृढं इत्यमर्षस्य निवेशितस्य क्षिप्रमेव रुदत्येति हसन्निति च रत्युचितेष्यौत्सुक्यहर्षानुसंधानम् । तृतीयं प्रकारमाहअङ्गत्वेनेति । अत्र च तापसवत्सराजे वत्सराजस्य पद्मावतीविषयः संभोगशृङ्गार
१. कण्ठं छित्त्वाक्षमालेल्यादिश्लोके' क-ख. २. 'प्राचुर्येणानिवेशनम्' क-ख. १. 'द्वितीयं प्रकारं' ग.
१६ ध्व० लो.