________________
१७१
३ उयोतः] ध्वन्यालोकः । एतदेवोपपादयितुमुच्यते
कार्यमेकं यथा व्यापि प्रबन्धस्य विधीयते ।
तथा रसस्यापि विधौ विरोधो नैव विद्यते ॥ २३ ॥ संध्यादिमयस्य प्रबन्धशरीरस्य यथा कार्यमेकमनुयायि व्यापकं कल्पते न च तत्कार्यान्तरैर्न संकीर्यते न च तैः संकीर्यमाणस्यापि तस्य प्राधान्यमपचीयते तथैव रसस्याप्येकस्य संनिवेशे क्रियमाणे विरोधो न कश्चित् । प्रत्युत प्रत्युदितविवेकानामनुसंधानवतां सचेतसां तथाविधे विषये प्रह्लादातिशयः प्रवर्तते ।
एव विततव्याप्तिकत्वेनाङ्गिभावोचितस्य रसस्य रसान्तरैरितिवृत्तवशायातत्वेन परिमितकथाशकलव्याप्तिभिर्यः समावेशः समुपबृंहणं तस्य स्थायित्वेनेतिवृत्तव्यापितया भासमानस्य नागितामुपहन्ति । अङ्गितां पोषयत्येवेत्यर्थः । एतदुक्तं भवति-अङ्गिभूतान्यपि रसान्तराणि खभावादिसामय्या खावस्थायां यद्यपि लब्धपरिपोषाणि चमत्कारगोचरतां प्रतिपद्यन्ते तथापि स चमत्कारस्तावत्येव न परितुष्य विश्राम्यति किं तु चमत्कारान्तरमनुधावति । सर्वत्रैव ह्यङ्गाङ्गिभावेऽयमेवोदन्तः । यथाह तत्रभवान्–'गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते । प्रधानस्योपकारो हि तथा भूयसि वर्तते ॥' इति । उपपादयितुमिति । दृष्टान्तस्य समुचितस्य निरूपणेनेति भावः । न्यायेन चैतदेवोपपद्यते । कार्य हि तावदेकमेवाधिकारिक व्यापकं प्रासङ्गिककार्यान्तरोपक्रियमाणमवश्यमङ्गीकार्यम् । तत्पृष्टवर्तिनीनां नायकचित्तवृत्तीनां तद्बालादेवाङ्गाङ्गिभावः प्रवाहपतित इति किमत्रापूर्वमिति तात्पर्यम् । तथेति व्यापितया । यदि वा एवकारो मिन्नक्रमः । तथैव तेनैव प्रकारेण कार्याङ्गाङ्गिभावरूपेण रसानामपि बलादेवासावापततीत्यर्थः । तथा च वृत्तौ वक्ष्यति तथैवेति । कार्यमिति । 'खल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति' इति लक्षितं बीजम् । बीजात्प्रभृति, 'प्रयोजनानां विच्छेदे यदविच्छेदकारणम् । यावत्समाप्तिः प्रबन्धस्य स तु बिन्दुः' इति बिन्दुस्वरूपतयार्थप्रकृत्या निर्वहणपर्यन्तं व्याप्नोति तदाहअनुयायीति । अनेन बीजं बिन्दुश्चेत्यर्थः । प्रकृते संगृहीते । कार्यान्तरैरिति । 'आगर्भादाविमर्शाद्वा पताका विनिवर्तते' इति । प्रासङ्गिकं यत्पताकालक्षणार्थप्रकृतिनिष्ठं कार्य यानि च ततो न व्याप्तितया प्रकरीलक्षणानि कार्याणि तैरित्येवं पञ्चानामर्थप्रकृतीनां वाक्यैकवाक्यतया निवेश उक्त इति । तथाविध इति । यथा तापसवत्सराजे । एवमनेन श्लोकेना..........ता.... यां दृष्टान्तनिरूपणमिति वृत्तबलापतितत्वं च रसाङ्गाङ्गिभावस्येति द्वयं निरूपितम् । वृत्तिग्रन्थोऽप्युभयाभिप्रायेणैव नेयः । शृङ्गारेण वीरस्याविरोधो युद्धनयपराक्रमादिना कन्यारत्नलाभादौ । हास्यस्य तु स्पष्टमेव तदङ्गत्वम् ।
१. 'तच्च कार्यान्तरैः' क-ख. २. 'अपनीयते' ग. १. 'व्याप्तं' ग. २. 'काव्यान्तर' ग. ३. 'श्लोकेनाङ्गाङ्गिभावस्येति' क-ख.