________________
१५८
काव्यमाला। ___ पदपौनरुक्त्यं च व्यञ्जकत्वापेक्षयैव कदाचित्प्रयुज्यमानं शोभामावहति । यथा
'यद्वञ्चनाहितमतिर्बहुंचाटुगर्भ
कार्योन्मुखः खलजनः कृतकं ब्रवीति । तत्साधवो न न विदन्ति विदन्ति किं तु
कर्तुं वृथाप्रणयमस्य न पारयन्ति ॥'
इत्यादौ ।
कालस्य व्यञ्जकत्वं यथा'समविसमणिव्विसेसा समन्तओ मन्दमन्दसंआरा ।
अइरा होहिन्ति पहा मणोरहाणं पि दुल्लङ्घा ॥' अत्र बचिराद्भविष्यन्ति पन्थान इत्यत्र भविष्यन्तीत्यस्मिन्पदे प्रत्ययः कालविशेषाभिधायी रसपरिपोषहेतुः प्रकाशते । अयं हि गाथार्थः प्रवासविप्रलम्भशृङ्गारविभावतया विभाव्यमानो रसवान् । यथात्र प्रत्ययांशो व्यञ्जकस्तथा कचित्प्रकृत्यंशोऽपि दृश्यते । यथा'तद्गुहं नतभित्ति मन्दिरमिदं लब्धावगाहं दिवः
सा धेनुर्जरती चरन्ति करिणामेता घनाभा घटाः।
तिशयो निर्वेदातिशयश्च ध्वन्यते । प्रसङ्गात्पौनरुक्त्यान्तरमपि व्यञ्जकमित्याह-पदपौनरुक्त्यमिति । पदग्रहणं वाक्यादेरपि यथासंभवमुपलक्षणम् । विदन्तीति । त एव हि सर्व विदन्ति सुतरामिति ध्वन्यते । वाक्यपौनरुक्यं यथा-'पश्य-द्वीपादन्यस्मादपि-' इति वचनानन्तरं 'कः संदेहः । द्वीपादन्यस्मादपि-' इत्यनेनेप्सितप्राप्तिरविनेतैव ध्वन्यते । 'किं ख......' इत्यनेनामर्षातिशयः । 'सर्वक्षितिभृतां नाथ दृष्टा सर्वासुन्दरी' इत्युन्मादातिशयः । कालस्येति । तिङन्तपदानुप्रविष्टस्याप्यर्थकलापस्य कारककालसंख्योपग्रहरूपस्य मध्येऽन्वयव्यतिरेकाभ्यां सूक्ष्मदृशा भागगतमपि व्यञ्जकलं विचार्यमिति भावः । रसपरिपोषेति । उत्प्रेक्ष्यमाणो वर्षासमयः कामकारी किमिति (8) वर्तमान इति ध्वन्यते । अंशांशिकप्रसङ्गादेवाह-यथात्रेति । दिव.
१. 'भुवि' ग. २. 'समविषमनिर्विशेषाः समन्ततो मन्दमन्दसंचाराः । अचिराद्भविष्यन्ति पन्थानो मनोरथानामपि दुर्लक्ष्याः ॥' इति च्छाया.