SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५६ संबन्धस्य यथा 'अण्णत्त वच्च बालअ अह्ना अन्ति किसमले हसिए अम् (?) । हो जाआभीरुआण तु विअणु होई ॥' (?) कृतकप्रयोगेषु प्राकृतेषु तद्धितविषये व्यञ्जकत्वमावेद्यत एव । समासानां च वृत्त्यौचित्येन विनियोजने निपातानां व्यञ्जकत्वं यथा'अयमेकपदे तथा वियोगः प्रियया चोपनतः सुदुःसहो मे । नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ॥' इत्यत्र चशब्दः । यथा वा काव्यमाल | ——— *** 'मुहुरङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लेवाभिरामम् । मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥ अत्र तुशब्दः । निपातानां प्रसिद्धमपीह द्योतकत्वं रसापेक्षयोक्तमिति द्रष्टव्यम् । उपसर्गाणां व्यञ्जकत्वं यथा 'नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामघः प्रस्निग्धाः कचिदिङ्गुदी फलभिदः सूच्यन्त एवोपलाः । - मिदं ध्वनति-त्वं तावदप्रौढो लोकमध्ये यदेवं प्रकाशयसि । अस्ति तु संकेतस्थानं शून्यगृहं तत्रैवागन्तव्यमिति । अन्यत्र व्रज बालक अप्रौढ प्रकर्षेणालोकयस्येतत् । भो इति सोल्लुण्ठमाह्वानम् । जायाभीरुकाणां संबन्धमेव (?) न भवति । अत्र जायातो ये भीरवस्तेषामेतत्स्थानमिति दूरापेतः संबन्ध इत्यनेन संबन्धेनैवेर्ष्यातिशयः प्रच्छन्नकामिन्याभिव्यक्तः । कृतकेति कग्रहणमिति तद्धितोपलक्षणार्थम् । कृतः कप्रत्ययप्रयोगो येषु काव्यवाक्येषु यथा जायाभीरुकाणामिति । ये हि रसज्ञा धर्मपत्नीषु प्रेमपरतन्त्रास्तेभ्यः कोऽन्यो जगति कुत्सितः स्यादिति कप्रत्ययोऽवज्ञातिशयद्योतकः । समासानां येति । केवलानामेव व्यञ्जकत्वमावेद्यत इति संबन्धः । चशब्द इति जातावेकवचनम् । द्वौ हि चशब्दावेवमाहतुः काकतालीयन्यायेन गण्डस्योपरि स्फोट इतिवत्तद्वियोगवद्वर्षा - समयश्च समुपनतः एतदलं प्राणहरणाय । अत एव रम्यपदेन सुतरामुद्दीपन विभावत्वमुक्तम् । तुशब्द इति पश्चात्तापसूचकः संस्तावन्मात्रपरिचुम्बनला मेनापि कृतकृत्यता स्यादिति ध्वनतीति भावः । प्रसिद्धमपीति । वैयाकरणादिग्रहणेषु हि वाक्प्रयोगखातन्त्र्यप्रयोगाभावात्षष्ठ्या (?) श्रवणाल्लिङ्गसंख्याविरहाच्च वाचकवैलक्षण्येन द्यो १. ‘अवज्ञातिशये..................समासानां' ग. २. 'अतिदुःसहः ' ग. ३. 'वारिधरोदयैः ग. ४. 'विक्लवाभिधानम्' ग. १. 'भीरूणां' ग. २. 'तत्र ज्ञायते ये भीरवः' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy