________________
३ उयोतः] ध्वन्यालोकः।
१३९ नेयार्थमनभिनेयाथै वा, उत्तमप्रकृत्याश्रयं तदितराश्रयं वेति बहुप्रकारम् । तत्र यदा कविरपगतरसभावो वक्ता तदा रचनायाः कामचारः । यदापि कविनिबद्धो वक्ता रसभावरहितस्तदा स एव । यदा तु कविः कविनिबद्धो वा वक्ता रसभावसमन्वितो रसश्च प्रधानभूतत्वावन्यात्मभूतस्तदापि नियमेनैव तत्रासमासामध्यमसमासे एव संघटने । करुणविप्रलम्भशृङ्गारयोस्त्वस-. मासैव संघटना । कथमिति चेत् , उच्यते । रसो यदा प्राधान्येन प्रतिपायस्तदा तत्प्रतीतौ व्यवधायका विरोधिनश्च सर्वात्मनैव परिहार्याः । एवं च दीर्घसमासा संघटना समासानामनेकप्रकारसंभावनया कदाचिद्रसप्रतीति व्यवदधातीति तस्यां नात्यन्तमभिनिवेशः शोभते । विशेषतोऽभिनेयार्थे काव्ये ततोऽन्यत्र च विशेषतः करुणविप्रलम्भशृङ्गारयोः । तयोहि सुकुमार
भावादिरूपतया वाच्योऽर्थोऽमिनीयत इति वाच्यममिनेयमर्थमित्येषैव युक्ततरा वाचोयुक्तिः । न त्वत्र व्यपदेशिवद्भावो व्याख्येयः, यथान्यैः । तदितरेति । मध्यमप्रकृत्याश्रयमधमप्रकृत्याश्रयं चेत्यर्थः । एवं वैतृभेदान्वाच्यभेदांश्चाभिधाय तद्गतमौचित्यं नियामकमाह-तत्रेति । रचनाया इति संघटनायाः। रसभावहीनोऽसाविष्टस्तापसादिरुदासीनोऽपीति वृत्ताङ्गतया यद्यपि प्रधानरसानुयाय्येव तथापि तावपि तावति रसादिहीन इत्युक्तम् । स एवेति कामचारः। एवं शुद्धवक्रौचित्यं विचार्य वाच्यौचित्येन सह तदेवाहयदा त्विति । कविर्यद्यपि रसाविष्ट एव वक्ता युक्तः । अन्यथा 'स एव वीतरागश्चेत्' इति स्थित्या नीरसमेव काव्यं स्यात् । तथापि यदा यमकादिचित्रप्रदर्शनप्रधानो. ऽसौ भवति तदा 'रसादिहीने' इत्युक्तम् । नियमेन रसभावसमन्क्तिो वक्ता न तु कथंचिदपि तटस्थः । रसश्च ध्वन्यात्मभूत एव । न तु रसवदलंकारप्रायः । तदासमासमध्यसमासे एव संघटते । अन्यथा तु दीर्घसमासापीत्येवं योज्यम् । तेन नियमशब्दस्य द्वयोश्चैवकारयोः पौनरुक्त्यमनाशयम् । कथमिति चेदिति । किं धर्मसूत्रकारवचनमेतदिति भावः । उच्यत इति ।न्यायोपपत्त्येत्यर्थः। तत्प्रतीताविति। तदाखादीये व्यवधायका विरोधिनश्च तद्विपरीताखादमया इत्यर्थः । संभावनयेति । अनेकप्रकारः संभाव्यते संघटना तु संभावनायां प्रयोक्रीति द्वौ णिचौ। विशेषतोऽभिनेयार्थेति । अत्रुटितेन यङ्गेन तावत्समासाभिनयो नो शक्यः कर्तुम् । काकादयोऽन्तरप्रसादगानादयश्च । तत्र दुष्प्रयोज्यबहुतरसंदेहसूचनाय प्रतिपत्तिर्न नाट्यरूपा स्यात् । प्रत्यक्षरूपत्वात्तस्या इति भावः । अन्यत्र चेति । अभिनेयार्थेऽपि मन्थरीभवतीत्या
१. 'तदापि' क-ख. २. 'प्रधानाश्रितत्वात्' क-ख. ३. 'कथं चेत्' ग. ४. 'परिभाव्याः ' ग. ५. 'तत्रान्यत्र' ग.. .. १. 'वस्तुभेदाद्वाच्यं चाभिधाय' ग. २. 'हीनः कविस्तापसादिः' क-ख. ३. 'व्यङ्ग्येन' ग.