________________
१३६
काव्यमाला। ननु यदि शब्दाश्रया गुणास्तत्संघटनारूपत्वं तैदाश्रयत्वं वा तेषां प्राप्तमेव । नह्यसंघटिताः शब्दा अर्थविशेष प्रतिपाद्य रसाद्याश्रितानां गुणाना. मवाचकत्वादाश्रया भवन्ति । नैवम् । वर्णपदव्यङ्ग्यत्वस्य रसादीनां प्रति प्रतिपादितत्वात् । अभ्युपगते वा वाक्यव्यङ्ग्यत्वे रसादीनां न नियता काचित्संघटना तेषामाश्रयत्वं प्रतिपद्यते इत्यनियतसंघटनाः शब्दा एव गुणानां व्यङ्ग्यविशेषानुगता आश्रयाः । ननु माधुर्ये यदि नामैवमुच्यते तदुच्यताम् । ओजसः पुनः कथमनियतसंघटनशब्दाश्रयत्वम् । नह्यसमासा संघटना कदाचिदोजस आश्रयतां प्रतिपद्यते । उच्यते-यदि न प्रसिद्धि
शब्दाः । तदा शब्दाश्रितं तत्सामर्थ्यमिति संघटनाश्रितमेवेत्युक्तं भवतीति तात्पर्यम् । ननु शब्दधर्मवं शब्दैकात्मकवं वा तावतास्तु किमयं मध्ये संघटनानुप्रवेश इत्याशय स एव पूर्वपक्षवाद्याह-नहीति । अर्थविशेषैर्न तु पदान्तरनिरपेक्षशुद्धपदवाच्यैः समान्यैः प्रतिपाद्या व्यङ्ग्या ये रसभावतदाभासतत्प्रशमास्तदाश्रितानां मुख्यतया तन्निष्ठानां गुणानामसंघटिताः शब्दा आश्रया न भवन्त्युपचारेणापीति भावः । अत्र हेतुः-अवाचकत्वादिति । न ह्यसंघटितव्यङ्गयोपयोगिनिराकाङ्क्षरूपं वाच्यमाहुरित्यर्थः । एतत्परिहरति-नैवमिति । व्यङ्ग्यो हि यावद्रस उक्तस्तावदवाचकस्यापि पदस्य श्रवणमात्रावसेयेन खसौभाग्येन वर्णवदेव यद्रसाभिव्यक्तिहेतुत्वं स्फुटमेव लभ्यत इति तदेव माधुर्यादीति किं संघटनया। तथा च पदव्यङ्गयो याववनिरुक्तस्तावच्छुद्धस्यापि पदस्य खार्थस्मारकत्वेनापि रसाभिव्यक्तियोग्यार्थावभासकलमेव माधुर्यादीति तत्रापि कः संघटनाया उपयोगः । ननु वाक्यव्यङ्ग्ये ध्वनौ ह्यवश्यं प्रवेष्टव्यं संघटनया । स्वसौन्दर्य वाच्यसौन्दर्य वा तया विना कुत इत्याशङ्कयाह-अभ्युपगत इति । वाशब्दोऽपिशब्दार्थे वाक्यव्यझ्यत्वेऽपीत्यत्र योज्यः । एतदुक्तं भवति-अनुप्रविशतु तत्र संघटना। नहि तस्याः संनिधानं प्रत्याचक्ष्महे । किं तु माधुर्यस्य न नियता संघटना । आश्रयो वा खरूपं वा तया विना कुत इत्याशङ्कयाह..."वर्णपदव्यङ्ग्ये न रसादौ भावान्माधुर्यादेः वाक्यव्यङ्ग्योऽपि तादृशी संघटनां विहायापि वाक्यस्य तद्रसव्यञ्जकत्वात्संघटना संनिहितापि रसव्यक्तावयोजिकेति । तस्मादौपचारिकत्वेऽपि शब्दाश्रया एव गुणा इत्युपसंहरति-शब्दा एवेति । नन्विति । वाक्यव्यङ्ग्यध्वन्यभिप्रायेणेदं मन्तव्यमिति केचित् । वयं तु ब्रूमः-वर्णपदव्यङ्ग्येऽप्यौजसि रौद्रादिखभावे वर्णपदानामेकाकिनां स्वसौन्दर्यमपि न तादृगुन्मीलति तावद्यावत्तानि समाससंघटनाङ्कितानि न कृतानीति सामान्येवैवायं पूर्वपक्ष
१. 'तदाश्रितत्वं' क-ख. २. 'नामैतदुच्यते' ग. ३. 'प्रतिपाद्यते' ग.४. 'उच्यते च' ग.
१. 'गुणानां' ग-पुस्तके नास्ति. २. 'शब्दाश्च' क-ख. ३. 'समर्थकत्वेन' क-ख. ४. 'प्रत्याचक्षते' क; 'प्रत्याचक्ष्यते' ख.