________________
३ उद्द्योतः ] ध्वन्यालोकः।
ननु ध्वनिः काव्यविशेष इत्युक्तं तत्कथं तस्य पदप्रकाशता । काव्यविशेषो हि विशिष्टार्थप्रतिपत्तिहेतुः शब्दसंदर्भविशेषः । तद्भावश्च पदप्र- . काशत्वेनोपपद्यते । पदानां स्मारकत्वेनावाचकत्वात् । उच्यते-स्यादेष दोषः यदि वाचकत्वं प्रयोजकं न ध्वनिव्यवहारे स्यात् । न त्वेवम् । तस्य व्यञ्जकत्वेन व्यवस्थानात्। किं च काव्यानां शरीरिणामिव संस्थानविशेषावच्छिन्नसमुदायसाध्यापि चारुत्वप्रतीतिरन्वयव्यतिरेकाभ्यां भागेषु कल्प्यत इति पदानामपि व्यञ्जकत्वमुखेन व्यवस्थितो ध्वनिव्यवहारो न विरोधि ।
'अनिष्टस्य श्रुतिर्यद्वदापादयति दुष्टताम् । श्रुतिदुष्टादिषु व्यक्तं तद्वदिष्टस्मृतिर्गुणम् ॥ पदानां स्मारकत्वेऽपि पदमात्रावभासिनः । तेन ध्वनेः प्रभेदेषु सर्वेष्वेवास्ति रम्यता ॥
ध्वनिरित्यत्र पक्षे चोद्यमेतत् । तद्भावश्चेति । काव्यविशेषत्वमित्यर्थः । अवाचकवादिति यदुक्तं सोऽयमप्रयोजको हेतुरिति च्छलेन तावद्दर्शयति-स्यादेष दोष इति । एवं छलेन परिहृत्य वस्तुवृत्तेन परिहरति-किं चेति । यद्यपरो ब्रूयात्-न मया अवाचकलं ध्वन्यभावे हेतूकृतं किं' तूक्तं काव्यध्वनिः । काव्यं च नोकालाप्रतिपत्तिचारिवाक्यं न पदमिति तत्राह-सत्यमेवं तथापि तु पदं न ध्वनिरित्यस्माभिरुतम् । अपि तु समुदाय एव । तथा च पदप्रकाशो ध्वनिरिति प्रकाशपदेनोक्तम् । ननु पदस्य तत्र तथाविधं सामर्थ्यमिति कुतोऽखण्ड एव प्रतीतिक्रम इत्याशङ्कयाह-काव्यानामिति । उक्तं हि प्राग्विवेककाले व्यपदेश इति । ननु भागेषु पदरूपेषु कथं सा चारुलप्रतीतिरारोपयितुं शक्या । तानि हि स्मारकाण्येव । ततः किम् । मनोहारिव्यङ्ग्यार्थस्मारकवाद्धि चारुखप्रतीतिनिबन्धनवं केन वार्यते । तथा श्रुतिदुष्टानां पेलवादिपदानामसभ्यपेलाद्यर्थ प्रति न वाचकत्वम् । अपि तु स्मारकत्वम् । तद्वशाचाचारुखरूपं काव्यं श्रुतिदुष्टम् । तच्च श्रुतिदुष्टसमन्वयव्यतिरेकाभ्यां भागेषु व्यवस्थाप्यते तथा प्रकृतेऽपीति तदाह-अनिष्टस्येति । अनिष्टार्थस्मारकस्येत्यर्थः । दुष्टतामित्यचारुखम् । गुणमिति चारुखम् । एवं दृष्टान्तमभिधाय पादत्रयेण तुर्येण दान्तिकार्थ उक्तः । अधुनोपसंहरति-पदानामिति । यत एवमिष्टस्मृतिश्चारुखमावहति तेन हेतुना सर्वेषु प्रकारेषु
१. 'संस्थिति' ग. २. 'श्रुतिः' क-ख. ३. 'गुणः' ग.
१. 'किंतु कुकाव्यं च नाकाङ्क्षा' क-ख. २. 'नाकालिपतिवृत्तिकारिकावाक्यं नरं पदमिति' ग. ३. 'सत्यमेतत्तथापि पदं ध्वनिरस्माभिरुक्तं' क-ख. ४. 'व्यङ्ग्यार्थाः' क-ख. ५. 'यथा' क-ख.