________________
काव्यमाला।
___ अत्र हि यथोद्देशमनूद्देशे यच्चारुत्वमनुरणनरूपं मदनविशेषणभूताङ्कुरितादिशब्दगतं तन्मदनसहकारयोस्तुल्ययोगितासमुच्चयलक्षणाद्वाच्यादतिरिच्यमानमालक्ष्यते । एवमन्येऽप्यलंकारा यथायोगं योजनीयाः।
राणां ध्वन्यमानता दृश्यते । यथा च दीपकध्वनिः-'मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा । वज्रमिन्द्रकरविप्रसृतं वा खस्ति तेऽस्तु लतया सह वृक्षः ॥' इत्यत्र बाधिष्टति भोव्यमानादेव दीपकादत्यन्तस्नेहास्पदवप्रतिपत्त्या चारुत्वनिष्पत्तिः । अप्रस्तुतप्रशंसाध्वनिरपि-'दुण्दुल्लन्तो मरिहिसि कण्टअकलिआ केअइवणाई। मालइकुसुमसरिच्छं भमर भमन्तो ण पाविहिसि ॥' प्रियतमेन साकमुद्याने विहरन्ती काचिनायिका भ्रमरमेवमाहेति भृङ्गस्याभिधायां प्रस्तुतत्वमेव । न चामन्त्रणादप्रस्तुतप्रशंसा । समाप्तायां पुनरभिधायां वाच्यार्थबलादन्यापदेशता ध्वन्यते । यत्सौभाग्याभिमानपूर्णा सुकुमारपरिमलमालतीकुसुमसदृशी कुलवधूर्निर्व्याजप्रेमपरतया कृतकवैदग्ध्यलब्धप्रसिद्ध्यतिशयशम्भलीकण्टकव्याप्तानि दूरामोदकेतकीवनस्थानीयानि वेश्याकुलानीतश्चतश्चध्र्यमाणं प्रियतममुपालभते । अपहृतिध्वनिर्यथास्मदुपाध्यायभहन्दुराजस्य–'यः कालागुरुपत्रभङ्गरचनावासैकसारायते गौराङ्गीकुचकुम्भभूरिसुभगाभोगे सुधाधामनि । विच्छेदानलदीपितोत्कवनिताचेतोधिवासोद्भवं संतापं विनिनीपुरेष विनतैरङ्गै ताङ्गि स्मरः ॥' अत्र चन्द्रमण्डलमध्यवर्तिनो लक्ष्मणो वियोगाग्निपरिचितवनिताहृदयोदितप्लोषमलीमसच्छविमन्मथाकारतयापह्नवो ध्वन्यते । अत्रैव ससंदेहध्वनिः-यतश्चन्द्रवर्तिनस्तस्य नामापि न गृहीतम् । अपि तु गौराङ्गीस्तनाभोगस्थानीये चन्द्रमसि कालागुरुपत्रभङ्गविच्छित्त्यास्पदलेन यः सारतामुत्कृष्टतामाचरति तन्न च जानीमः किमेतद्वस्विति ससंदेहोऽपि ध्वन्यते । पूर्वमनङ्गीकृतप्रणयामनूत्तप्तां विरहोत्कण्ठितां वल्लभागमनप्रतीक्षापरलेन कृतप्रसाधनादिविधितया वासकसज्जीभूतां पूर्णचन्द्रोदयावसरे दूतीमुखानीतः प्रियतमस्त्वदीयकुचकलशन्यस्तकालागुरुपत्रभङ्गरचना मन्मथोद्दीपनकारिणीति चाटुकं कुर्वाणश्चन्द्रवर्तिनी चेयं कुवलयदलश्यामलकान्तिरेवमेव करोतीति प्रतिवस्तूपमाध्वनिरपि । सुधाधामनीति चन्द्रपर्यायतयोपात्तमपि पदं संतापं निनीषुरित्यत्र हेतुतामपि व्यनक्तीति हेवलंकारध्वनिरपि । वदीयकुचशोभा मृगाङ्कशोभा च सह मदनमुद्दीपयत इति सहोक्तिध्वनिरपि । 'खत्कुचसदृशश्चन्द्रश्चन्द्रसमस्त्वत्कुचाभोगः' इत्यर्थप्रतीतेरु
१. 'अनुद्देशे' क-ख. २. 'अनति' क-ख.
१. 'तथा च' क-ख. २. 'गोप्यमानात्' क-ख. ३. 'अभिप्रायं' क-ख. ४. 'अप्रस्तुतत्वावगतिः प्रत्युतामन्त्रणं तस्य ......' ग. ५. 'चञ्चलमानसं' ग. ६. 'विलासोद्भवं' क, 'विकासोद्भवं' ख. ७. 'इति तजानीमः' क-ख. ८. 'उक्तं' क-ख. ९. 'शोभाभिः सह' क-ख. १०. 'चन्द्रमसः कुचा' क-ख.