SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ २ उयोतः] ध्वन्यालोकः । वसन्तपुष्पाभरणं वहन्त्या देव्या आगमनादिवर्णनं मनोभवशरसंधानपर्यन्तं शंभोश्च परिवृत्तधैर्यस्य चेष्टाविशेषवर्णनादिसाक्षाच्छब्दनिवेदितम् । इह तु सामाक्षिप्तव्यभिचारिमुखेन रसप्रतीतिः । तस्मादयमन्यो ध्वनेः प्रकारः। यत्र च शब्दव्यापारसहायोऽर्थोऽर्थान्तरस्य व्यञ्जकत्वेनोपादीयते स नास्य ध्वनेर्विषयः । यथा 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया। हसन्नेत्रार्पिताकूतं लीलापमं निमीलितम् ॥' अत्र लीलाकमलनिमीलनस्य व्यञ्जकत्वमुक्त्यैव निवेदितम् । मान एव भवति न वाच्यः कदाचिदपि तथापि न सर्वो लक्ष्यक्रमस्य विषयः। यत्र हि विभावानुभावेभ्यः स्थायिगतेभ्यो व्यभिचारिगतेभ्यश्च पूर्णेभ्यो झटित्येव रसव्यक्तिस्तत्रास्त्वलक्ष्यक्रमः। यथा-'निर्वाणभूयिष्ठमथास्य वीर्य संधुक्षयन्तीव वपुर्गुणेन । अनुप्रयाता वनदेवतामिरदृश्यत स्थावरराजकन्या ॥' इत्यादी संपूर्णालम्बनोद्दीपनविभावतायोग्यखभाववर्णनम् । 'प्रतिग्रहीतुं प्रणयिप्रियवात्रिलोचनस्तामुपचक्रमे च । संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥' इत्यनेन विभावतयोपयोग उक्तः। 'हरस्तु किंचित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः। उमामुखे बिम्बफलाधरोष्टे व्यापारयामास विलोचनानि॥' अत्र हि भगवत्याः प्रथममेव तत्प्रवणत्वात्तस्य चेदानीं तदुन्मुखीभूतत्वात्प्रणयिप्रियतया च पक्षपातस्य सूचितस्य गाढीभावाद्रत्यात्मनः स्थायिभावस्यौत्सुक्यावेगचापल्यहर्षादेश्व व्यभिचारिणः साधारणीभूतोऽनुभाववर्गः प्रकाशित इति विभावानुभावचर्वणैव व्यमिचारिचर्वणायां पर्यवस्यति । व्यभिचारिणां पारतन्यादेव सक्सूत्रकल्पस्थायिचर्वणाविश्रान्ते. रलक्ष्यक्रमत्वम् । इह तु पद्मदलगणनमधोमुखत्वं चान्यथापि कुमारीणां संभाव्यत इति झटिति न लज्जायां विश्रमयति हृदयमपि तु प्राग्वृत्ततपश्चार्यादिवृत्तान्तानुसरणेन तत्र प्रतिपत्तिं करोतीति क्रमव्यङ्ग्यतैव । रसस्त्वंत्रापि दूर एव व्यमिचारिखरूपे पर्यालोच्यमाने भातीति तदपेक्षया लक्ष्यक्रमतैव । लज्जापेक्षया तु तंत्र लक्ष्यक्रमत्वम् । अमुमेव भावमेवशब्दः केवलशब्दश्च सूचयति । उक्तिं विनेति यदुक्तं तद्यवच्छेद्यं दर्शयितुमुपकमते-यत्र चेति । चशब्दस्तुशब्दस्यार्थे । अस्येति । अलक्ष्यक्रमस्तु तत्रापि स्यादेवेति भावः । उदाहरति-संकेतेति । व्यञ्जकत्वमिति । प्रदोषसमयं प्रतीति शेषः । उक्त्यैवेति । आद्यपादत्रयेणेत्यर्थः। यद्यपि चात्र शब्दान्तरसंनिधानेऽपि प्रदोषार्थ - १. 'निवेशितेभ्यः' क-ख. १. भवति' ग-पुस्तके नास्ति. २. 'तथा न' क-ख. ३. 'पूर्व' ग. ४. 'पर्यवस्यन्ती' क-ख. ५. 'अत्रातिदूर' क-ख. ६. 'नालक्ष्यक्रमलम्' क-ख. ७. 'तदवच्छेदं' ग. ८. 'उदाहरति-संकेतेति' ग-पुस्तके नास्ति.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy