________________
काव्यमाग। दीक्षांशोर्षिदुःखप्रयवभवभयोदन्वदुचारनावो
गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ।' एदाहरणेषु शब्दशक्त्या प्रकाशमाने सत्यपाकरणिकेऽर्थान्तरे वाक्यस्यासंबंद्धार्थाभिधायित्वं मा प्रसाडीदित्यप्राकरणिकपाकरणिकार्थयोरुपमानोपमेयभावः कल्पयितव्यः सामर्थ्यादित्याक्षिप्तोऽयं श्लेषो न शब्दोपारूढ इति विभिन्न एव श्लेषादनुखानोपमव्यङ्ग्यस्य ध्वनेविषयः । अन्येऽपि चालंकाराः शब्दशक्तिमूलानुखानरूपव्यन्ये ध्वनौ संभवन्त्येव । तथाहि विरोधोऽपि शब्दशक्तिमूलानुखानरूपो दृश्यते । यथा स्थाण्वीश्वराख्यजनपदवर्णने भट्टबाणस्य
'यंत्र च मत्तमातङ्गगामिन्यः शीलवत्यश्च गौर्यो विभवरताश्च श्यामाः पद्मरागिण्यश्च धवलद्विजशुचिवदना मदिरामोदिश्वसनाश्च (चन्द्रकान्तवपुषः शिरीषकोमलाङ्ग्यश्च अभुजंगगम्याः कञ्चुकिन्यश्च पृथुकलत्रश्रियो दरिद्रमध्यकलिताश्च लावण्यवत्यो मधुरभाषिण्यश्च अप्रमत्ताः प्रसन्नोज्वलरागाश्च अकौतुकाः प्रौढाश्च) प्रमदाः ।
तावद्भात्येव न चान्यतः शब्दादिति सा ध्वननव्यापारात् । तत्रामिधाशक्तः कस्याश्चिदप्यनाशङ्कनीयवात् । तस्यां च द्वितीया शब्दशक्तिमूलम् । तया विना तस्या रूपणाया अनुत्थानात् । अत एवालंकारध्वनिरयमिति युक्तम् । वक्ष्यते च 'असंबद्धार्थाभिधायित्वं मा प्रसासीत्' इत्यादि । पूर्वत्र तु सलेशपदेनैवासंबद्धता निराकृता । 'येन ध्वस्त-' इत्यजासंबद्धता नैव भाति । 'तस्या विनापि-' इत्यत्रापिशब्देन 'श्लाघ्या-' इत्यत्राधिकशब्देन 'भ्रमि-' इत्यादौ च रूपकेणासंबद्धता निराकृतेति तात्पर्यम् । पयोभिरिति पानीयैः क्षीरेश्च । संहारो ध्वंसः, एकत्र ढौकनं च । गावो रश्मयः सुरभय इव । असंबद्धार्थाभिधायित्वमिति । असंबध्यमानमेवेत्यर्थः । उपमानोपमेयभाव इति । तेनोपमारूपेण व्यतिरेचननिहवादयो व्यापारमात्ररूपा एवात्राखादप्रतीतेः प्रधानं विश्रान्तिस्थानं न तूपमेयादीति सर्वत्रालंकारध्वनौ मन्तव्यम् । सामर्थ्यादिति । ध्वननव्यापारादित्यर्थः । मत्तमातलेति । मत्तमातङ्गवद्गच्छन्ति तांश्च गच्छन्तीति विरोधः ।
१. 'एतेषु' क-ख. २. 'संबन्धा' म. ३. 'इत्याक्षिप्तोऽयं' क-ख. ४. 'दृश्यत एव', क-ख. ५. हर्षचरिते तृतीयोच्छासे गद्यमेतत्.
१. 'मातङ्गं च' ग.