SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १३६ छन्दःशेखरः [शीर्षकोत्साहादिःचतुर्दशौजयोर्मात्रा युजोः पञ्चदशाधिकाः। भासप्तदशकात् षोढा भवेत्पादविपर्ययात् ॥ १४६ ॥ भोजयोश्चतुर्दश युजोस्तु । पञ्चदश मुखपालनतिलकः ॥ १४७ ॥ पदयोरनयोर्व्यत्यये सति । कृतिभिरभाण्यनङ्गल[लि]ता ॥ १४८ ॥ असमयोश्चतुर्दश समयोः। षोडश मात्रा वसन्तलेखा ॥ १४९ ॥ मन्मथविलसितं बुधैः कथितं । पादविपर्ययेण कृत्वा ॥ १५० ॥ मधुरालापिन्या हस्तः । विषमे चतुर्दश समे सप्तदश ॥ १५१ ॥ ओहल्हणकं वारङ्गडी वा। चरणविपर्यये कृते सति ॥ भेदाः षट् चतुर्दशकलक्रमे। द्विविधे षद्विदबिचैदैरिति ॥ १५२ ॥ ओजे पञ्चदशैव स्युर्युग्मयोः षोडशादिकाः । मात्राः सप्तदशान्ताः [स्यात् प्राग्वद्भेदचतुष्टयम् ॥ १५३॥ युग्मयोः पञ्चदश कलाः स्युः। समयोः षोडश पङ्क्तिर्भणिता ॥ १५४ ॥ चरणयोर्विपर्ययेण कथिता। कजलरेखा छन्दो" भवेत् ।। १५५ ॥ कुसुमात्परं लतागृहं स्याद् । विषमे पञ्चदश समे सप्तदश ॥ १५६ ॥ पदविपर्ययकृतं किलिकिंचितं । त्रिचगणतगणैरथवा त्रिपैः ॥ १५७ ॥ पञ्चदशमात्रपादे द्विभेदे। भेदचतुष्टयमिह वद हन्त ॥ १५८ ॥ षोडशैवायुजोर्मात्रा युजोः सप्तदशैव तु । पादव्यत्ययसंयुक्ता द्विधैषापि भुवि ध्रुवा ॥ १५९॥ षोडशैव कला विषमे क्रमे। सप्तदशैव समे रस्नमाला ॥ १६० ॥ शशिबिम्बमुत्क्रमे षोडशकले। पद्विचदचतुश्चैर्द्विविधपदे॥ भेदौ द्वौ पद्विचतैस्त्रिचपैश्च । द्विविधसप्तदशमात्रः पादः ॥ १६१ ॥ एवं दशोत्तरशतं ललिताभिधान भैदैरिहान्तरसमार्धसमाऽपि तद्वत् । किं तु द्वितीयचरणः प्रथमेन तुल्य स्तुर्यस्तृतीयसदृशोऽर्धसमासु कार्यः॥ १६२॥ . यथा : किवकन्नकलिंग परिजिया। ठिय नरवह माणविवजिया॥ न उ कोइ अहिट्ठइ अणियवहे । कहि वहरि जयदु(इ)हो कन वहे ॥ १६३ ॥ इत्यादि। भासां चतुष्पदीनां द्वित्रिचतुर्भिर्लक्षणैः एकत्र मिश्रितैः संकीर्णमिष्यते। यथा-: १ Ms. has आदशकात्र. २ Ms. has षड्विचित्रिचदिशति. ३ Ms. has तु. ४ Ms. has चलणविप०. ५ Ms. has च्छन्दःशेखरे. ६ Ms. has त्रिपैर्गणैः. ७ Ms. has पद्विचतैस्तुचपैश्च.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy