________________
छन्दोदर्शनम्
259
पदपाठः - यः । विश्वऽथा । ज्योतिः। आभि । द्योतते । अयम् ।
यस्मिन् । अन्यत् । न । रोचते । परम् । किम् । स्वित् ।। यः । एकः । सन् । सहसा । इह । चेतते । अन्तरिति । सः। सत्यः । अयम् । अमृतः। विश्वऽवेदाः ॥
षष्ठी ऋक् । यं वाचा वा वदितुं न विप्रा अरं यं प्राणैः स्वरितुं प्राणभृतो नालम् ॥ यं मनसा मन्तुं न मनीषिणोऽरं
स सत्योऽयममृतौ विश्ववेदाः ॥ ६॥ पदपाठः – यम् । वाचा । वा । वदितुम् । न । विप्राः । अरम् ।
यम् । प्राणैः । स्वरितुम् । प्राणऽभृतः । न । अलंम् ।। यम् । मनसा । मन्तुम् । न । मनीषिणः । अर॑म् । सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥
सप्तमी अक् । यं वा श्रुत्या श्रोत्रिया नानुश्रोतुं यं चक्षुषा न दृशेsरं चक्षुष्मन्तः ॥ यं धियाऽनुध्यातुमरं न विपश्चितः
स सत्योऽयममृतौ विश्ववेदाः ॥ ७ ॥ पदपाठः - यम् । वा । श्रुत्या । श्रोत्रियाः । न । अनु । श्रोतुम् ।
यम् । चक्षुषा । न । दृशे । अरम् । चक्षुष्मन्तः ॥ यम् । धिया । अनु । ध्यातुम् । अरम् । न । विपःऽचितः। सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥