SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ 258 छन्दोदर्शनम् तृतीया ऋक् । यश्चिद् विश्वमिदं वेद ब्रह्मणाऽयं य इमा जजान भुवनानि विश्वा ॥ विश्वेषु योऽनु भूतेषु प्रविष्टोऽन्तः स सत्योऽयममृतो विश्ववेदाः ॥ ३ ॥ पदपाठः - यः। चित् । विश्वम् । इदम् । वेदं । ब्रह्मणा । अयम् । यः । इमा । जजान । भुवनानि । विश्वा । विश्वेषु । यः। अनु । भूतेषु । प्रऽविष्टः । अन्तरिति । सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥ चतुर्थी ऋक् । यो विदा ब्रह्म बृहन् यो बृहस्पतियो जनिता ऋचां यो ऋषिः परः सन् ॥ यो वाचो विश्वस्य जनिता सत्प॑तिः स सत्योऽयममृतो विश्ववेदाः ॥ ४ ॥ पदपाठः - यः । विदा । ब्रह्म । बृहन् । यः। बृहस्पतिः। यः । जनिता । ऋचाम् । यः । ऋषिः। परः । सन् ॥ यः । वाचः । विश्वस्य । जनिता । सत्ऽपतिः । सः। सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥ पश्चमी ऋक् । यो विश्वथा ज्योतिरभि द्योततेऽयं यस्मिन् अन्यन् न रोचते परं किं स्वित् ॥ य एकः सन् सहसेह चेततेऽन्तः स सत्योऽयममृतो विश्ववेदाः ॥५॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy