________________
सवृत्तिके कविदर्पणे
[प्रथमोद्देशे [परिसितपङ्कतृष्णादाहदु:खा: वीतराग सहसेति ।
जाता वयं दर्शने युष्माकं नाथ स्नाता इवामृतद्रहे ॥६॥] प्रमुखशब्दात्संस्कृते हादिसंग्रहो 'जहादिठ्ठ 'मिति पदं चानुयोज्यम् । तेन यथादृष्टं लक्ष्यानुरोधात् संस्कृते ह्रादिपूर्वगा न गुरवो यथा
___ स्पृष्टं त्वयेत्यपह्रियः खलु कीर्तयन्ति ॥७॥ तथा
तव ह्रियापह्रियो मम हीरभूच्छशिग्रहेपि द्रुतं न धृता ततः।। बहलभ्रामरमेचकतामसं मम प्रिये व समेष्यति तत्पुनः॥८॥
धनं प्रदानेन श्रुतेन विद्याम् ॥ ९॥ लीलासिताब्जमुत दर्पणमातपत्रं किं दन्तपत्रमथ किं शुकमौलिरत्नम् ।
किं चामरं तिलकबिन्दुरथेन्दुबिम्बमेतद्दिवो निद्भुतदीप्ति मुदे न कस्य ॥१०॥ इति । तुर्यश्चतुर्थो भागश्छन्दसः पादाख्यः । किं सर्वत्र । नेत्याह । आविशेषे सामान्याभिधाने । द्विपदीपञ्चपद्यादिषु तु द्वितीयाद्यंशोपि पादः । अनेन आशास्त्रसमाप्तेः पादाधिकारः सूचितः । एवं छन्दोधिकारोपि । तथा लोकाञ्चन्द्रादिसंज्ञमेकादि ज्ञेयम् । तथा ह्येकश्चन्द्रादिः, द्वौ नेत्रादी, त्रयोsग्न्याद्याश्चत्वारो वेदाद्याः पञ्च भूताद्याः षड् रसाद्याः सप्ताश्चाद्या अष्ट वस्वाद्या नव ग्रहाद्या दश दिगाद्या एकादश रुद्राद्या द्वादश सूर्याद्यास्त्रयोदश विश्वाद्याश्चतुर्दश मन्वाद्याः पञ्चदश तिथ्याद्याः षोडश नृपाद्याः एवं शब्दा अपि ॥५॥६॥ यति युग्मेनाह
सुइसुहविरई अ जई सा पायंतंमि होइ सव्वत्त । नियमेण सिलोयद्धे तिपमुहछिन्नप्पयंते य ॥ ७ ॥ पयमज्झेवि हु पुव्वापरभाया.एगवन्नया जइ नो। नवर इमा कायव्वा पयमज्झजई न पायंते ॥ ८॥ [श्रुतिसुखविरतिश्च यतिः सा पादान्ते भवति सर्वत्र । नियमेन श्लोकार्धे त्रिप्रमुखच्छिन्नपदान्ते च ॥७॥ पदमध्येपि खलु पूर्वापरभागौ एकवर्णको यदि न ।
केवलमियं कर्तव्या पदमध्ययतिर्न पादान्ते ॥८॥] श्रुति]सुखहेतुत्वात्सुखा शर्मकृत् । सा च सा विरतिश्च विश्रान्तिः श्रुतिसुखविरतिर्यतिसंज्ञा ज्ञेया। सा केल्याह । पादान्ते भवति । कीदृशे । सर्वत्र लुप्तविभक्तिके चालुप्तविभक्तिके च । यथा
नमः कलिमलस्तोमबध्नसब्रह्मचारिणे ॥११॥ परदोषपुरीषाणि विचिन्वन्तः पदे पदे ।
भ्रमन्त्युच्चैर्भषन्तश्च पिशुनाः शुनका इव ॥१२॥ न त्वेवं यथा