SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ तृतीयो गुम्फः [ ५६ चर्चरीति मनोहराभिधमद्भुतं समुदाहृतं वृत्तमेतदहीन्द्रनिर्मितमञ्जसा कविभिः कृतम् ।। २४१ ॥ यथा-शारदापटनारदाकृतिपारदाकरराजितं क्षीरसागरतीरशोभितहीरसप्रसभाजितम् । चन्द्र चन्दनचन्द्रिकाचय चारुचामरभाजितं सस्तवं सुयशस्तवाऽवनिशस्तसुज्ञसभाजितम् ॥ २४२ ।। अथ शार्दूलविक्रीडितम् दत्वादौ मगण ततः सजगणौ सान्ते ततस्तद्वयं तस्यान्ते गुरुमेकमुच्चर सखे कृत्वा मतिं निश्चलाम् । इत्युच्चैः प्रचरच्चतुश्चरणभाक् सम्भाव्यमानाक्षर छन्दः सन्ततसुन्दरं विजयते शार्दूलविक्रीडितम् ।। २४३ ।। यथा-हुङ्कारान् वितनोति मुण्डपटली रुण्डावली कूदते शुण्डाः शुण्डिभुशुण्डिखण्डपतितास्तत्राऽस्रकुण्डान्तरे । इत्थं विक्रमवक्रखङ्गनखरप्रकान्तघोरक्रियस्त्वं राजेन्द्र रणाङ्गणे वितनुषे शार्दूलविक्रीडितम् ॥ २४४ ॥ यथा वा खेलन्मजुलखञ्जरीटनयना पूर्णेन्दुबिम्बानना तारामण्डलमण्डनातिविशदज्योत्स्नादुकूलावृता । वक्षोजायितचक्रवाकमिथुना चञ्चन्मृणालीभुजा फुल्लत्कोकनदौघपाणिचरणा भाते शरत्कामिनी ।। २४५ ।। अथ चन्द्रनामकं वृत्तम् नगणलघुयुगल मिति तद्विरिह सुजन कुरु तदनु गुरुनगणयुगमन्तलघुयुगलमुरु । वद तदतिरुचिरगति वृत्तमिह सुकविवर कलय निजमनसि किल चन्द्र इति चतुरनर ॥ २४६ ॥
SR No.023459
Book TitleVruttamuktavali
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1963
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy