SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ तृतीयो गुम्फः [ ५१ यथा-नूतनजलदमनोहरविग्रह जातदनुजदितिजौघविनिग्रह। ... भालकलितविलुलत्कुटिलालक पालय निजजनमद्भुतबालक ।। १८५॥ प्रहर्षिणी लक्ष्मैतन्मनजरगाः क्रमेण कार्या विश्रामस्त्रिभिरथ दिग्भिरत्र धार्यः । भोगीन्द्रस्फुटमुखचन्द्रगा सुधेयं विख्याता कविषु भवेत्प्रहर्षिणीति ॥१८६॥ यथा-अध्यक्षिणदमवेक्ष्य पङ्कजातं सजातं विकसितमापतन्मिलिन्दः । श्यामायाममृतमयूखमीक्षमाणः सम्मोदप्रचयमचीकरच्चकोरः । ॥ १८७ ।। अथ हरिणप्लुता पठितं रहितप्रथमाक्षरं द्रुतविलम्बितमाद्यतृतीययोः । गदिता कविभिर्मतिशालिभिर्भवति सा भुवने हरिणप्लुता ॥ १८८ ।। यथा-अपि कोपि पिको विपिने रटन्विकुरुते कुरुते न मनो मम । __ क्व नु सा प्रमदा प्रमदावहा हरति या रतिया विरहज्वरम् ॥ १८६।। प्रभावतीवृत्तम् तान्ते गुरुर्नजरगणा यदि क्रमाहत्ता भवन्त्यनपमरीतिशालिनः । मोदावहा भवति यतियुगग्रहैः सा जीयते गरिमवती प्रभावती ॥ १६० ॥ यथा-कूजपिकीकलकलकाकलीकले कुजालये पुलकविसंष्ठुलाकृतिः । कृष्णोऽधुना तव मुखचन्द्रचन्द्रिकातृष्णोच्चलन्नयनचकोरकः स्थितः ॥१६॥ इयमेव लघ्वादिश्चेत्कलावती स्यात्यथा-समुल्लसत्कुसुमपरागधोरणी पुरो यथा प्रसभमुदेति कानने । तथोत्थितां मदननृपस्य लक्षये समन्ततो भुवि चतुरङ्गिणी चमूः ॥१६२॥ अथ वसन्ततिलका वक्रद्वयं जगणतः सगणद्वयं स्यादन्ते तथैव यगणः सततं नियोज्यः । फुल्लद्वसन्ततिलकाञ्चितसौरभाढयं छन्दो वसन्ततिलकाभिधमेत दुच्चैः ।। १६३॥
SR No.023459
Book TitleVruttamuktavali
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1963
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy