SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ४६ ] वृत्तमुक्तावल्याम् यथा-चञ्चदञ्चल तिरोहितदीपज्योति रुल्ल सदुरोजयुगश्रीः । कापि कामरमणीरमणीया मन्दमन्दमुपयाति वधूटी ।। १३२ ॥ अथ दमनकच्छन्दः प्रतिपददशलघुकलितं वदनवलितगुरुललितम् । दमनकमिति वदत बुधा अमृतमिव पिबति वसुधा ।। १३३ ।। यथा - जय जय गिरिवरतनये विधिविधुहरकृतविनये । निरयिणि शिशुगृहधनये मयि शुभशतमिह जनयेः ॥ १३४ ॥ अथ तालच्छन्द: अष्टवर्णधोरणी विधोयतां शुद्धवक्रसुक्रमेण दीयताम् । अन्ततो लमध्यसद्गणान्वितं तालवृत्तमेतदेव निर्मितम् ।। १३५ ।। यथा - उन्नमत्सुधापयोधरत्विषं कंस केशिमुख्यदानवद्विषम् । भक्तलोकचित्तचारुचन्दनं संततं नमामि नन्दनन्दनम् ॥ १३६ ॥ श्रथ माला रुद्रा वा वर्णा यस्यामस्यन्ते यत्या युक्ता विज्ञ रुक्ता रस्यन्ते । तन्मालाख्यं वृत्तं चित्ते मन्वीथा यत्पीयूष स्रोतस्तुल्यं तन्वीथाः ॥ १३७॥ यथा - धीरं धीरं धारासारैर्वर्षन्तः पान्थस्त्रीणां चेतोधैर्यं कर्षन्तः । संप्रत्येते मेघा उच्चैः सज्जन्ते मानिन्योऽन्तर्मानं कृत्वा लज्जन्ते ।। १३८ ।। प्रथेन्द्रवज्रा यस्यां तकारद्वितयं जकारः प्रान्ते निधेयं गुरुवर्णयुग्मम् । मात्राभिरष्टादशसंमिता सा सैकादशार्णा जयतीन्द्रवज्रा ॥ १३६ ॥ यथा - लीलाललामा, ललिता लताभा लोलेक्षणा लास्यपरा लसन्ती । लावण्यलक्ष्मीलु लिताऽलकान्ता लभ्या कदा सा भुवनेत्र कान्ता ॥ १४० ॥ चञ्चच्चमत्कारिचकोरचञ्चचाञ्चल्य चातुर्य चयैकचौरैः । श्राकुञ्चितैरञ्चितलोचनान्तैः काले कदा मां कलयिष्यतीयम् ॥१४१॥ वक्षोरुहोद्भासितपद्ममाला प्रत्यङ्गदीव्यज्जलबिन्दुजाला । राजद्वपुर्वारिविहारकाले कासारतः कापि ससार बाला ।। १४२ ॥
SR No.023459
Book TitleVruttamuktavali
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1963
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy