SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ४२ ] वृत्तमुक्तावल्याम् यथा-अमुना यमुनाकूलवटमूलविहारिणा । हारिणा हरिणा हन्त हेलितं हृदयं मम ।। ६० ।। महालक्ष्मीवृत्तम् रत्रयं यत्र सन्दीयते पादशोभा समानीयते । तन्महालक्ष्म्यदो नामकं वृत्तमन्तःसुधाऽऽचामकम् ।। ६१ ।। यथा-पण्डितालीमनोहारिणी कापि वाणी चमत्कारिणी। मोदवृन्दैकविस्तारिणी मन्मुखान्तर्जनोद्धारिणी ।। ६२ ॥ अथ सारङ्गिका सलघुचतुष्कं निहितं गयुगलमन्ते विहितम् । सगणसमेतं सुविदः ! कलयत सारङ्गमदः ॥ ६३ ।। यथा-कुचजितनारङ्गिकया दृगुदितसारङ्गिकया। विरचितमन्दस्मितया विदलितचित्तोऽस्मि तया ॥ ६४ ।। अथ पाईत्ता चत्वारः स्युर्यदि गुरवः शुद्धा वेदाः' सुविदुरवः । अन्ते वक्रो भवति सदा पाईत्ताख्यं जयति तदा ।। ६५॥ यथा-चामं चामं चरितरसान्नामं नामं निजशिरसा।। श्यामं वामं कमलदृशं कामं रामं भजत भृशम् ।। ६६ ॥ प्रथ कमला वसुलघुपरिकलिता मुखहृतगुरुललिता । मदुपदगतिरमला विलसति किल कमला ।। ६७ ॥ यथा-भवजलनिधितरणं निखिलसुजनशरणम् । हृदयतिमिरहरणं कलयत हरिचरणम् ॥ ६८ ॥ अथ बिम्बवृत्तम् भवति लघुपञ्चकं चेत् तदनु रगणक्रमं चेत् । वदनगुरुलग्नचित्तम् कलय ननु बिम्बवृत्तम् ॥ ६ ॥ १. चत्वारो गुरवः, शुद्धाः (लघवः) वेदाः (चत्वारः) अन्ते वक्र: (गुरुः) तदा 'पाईत्ता' च्छन्दः ।
SR No.023459
Book TitleVruttamuktavali
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1963
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy