SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ द्वितीयो गुम्फः अथ दुर्मिलाच्छन्दः__यस्याश्चरणे द्वात्रिंशत्कलिकाः, षोडशभिश्च यतिः, यतिश्च नेह पदान्तत्वमात्रं किन्तु परकलयाऽमिश्रितत्वाऽभावमात्रम् । अस्याः सगणान्तत्वनियममपि केचिदिच्छन्ति । यथा-स्नेहरसौघसततसन्दीपितमन्दीकृतकुलगतिसन्तमसः । कलयति सखि सन्तापमसह्यं किमपि कथापथमेति न मम सः ।। उरुनिश्वासनिवहझञ्झानिलद्धितशिखोदारसञ्ज्वलितः स्फुरति विरहदीपो हृदि सदने कलुषकलङ्ककज्जलाकुलितः ॥५४।। अथ हीरच्छन्दः - ___यस्य चरणे आदी गुरुस्ततश्चत्वारो लघव इत्येवं क्रमेण षट्कलत्रितयं विधायाऽन्ते रगणः क्रियते, तद्धीरच्छन्दः । तच्च प्रतिषट्कलं यत्या रहितं सहितं च । आद्यं सुहीरम्, अन्त्यं हीरम् । क्रमेण यथा रासललितलासकलितहासवलितशोभनम् लोकसकलशोकशमलमोकमखिललोभनम् । जातनयनपातजनितशातमुदितभारसम् भाति मदनमानकदनमीशवदनसारसम् ।। ५५ ।। खजनवरगञ्जनकरमञ्जनरुचिराजितम् कामहृदभिराममतिललामरतिसभाजितम् । नीलकमलशीलमुदितकीलविरहमोचनम् जातिकुटिलयाति सुदति भाति तव विलोचनम् ॥ ५६ ।। अत्र षट्कलस्य सर्वलघुत्वे, तुर्याक्षरस्यैव गुरुत्वे वा छन्दोऽन्तरमुत्प्रेक्षितं भवति । तच्च लघुहोरकं परिवृत्तहीरकं चेति व्यवहर्तव्यम् । द्वयमपि यथा विरहगरलभरिततरलकुटिलसरललोचना चरणनखरकलितमदनयुवतिमदविमोचना । अमलकमलरजनिरमणमुकुरविलसितानना त्वमिह जयसि सुतनु किरणवलितसकलकानना ।। ५७ ।। . विलसदङ्गचितरङ्गललितरङ्गरञ्जिनी लसदपारपटिमभारमदनदारगञ्जिनी ।
SR No.023459
Book TitleVruttamuktavali
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1963
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy