SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ तृतीयो गुम्फः जय जय जय देव गोवर्द्धनोदारभूमोधराधीशवृन्दाटवी चारिणे चरणकमलचारुपङ्केरुहान्तभ्रं मन्मत्तभृङ्गातिश्री मनोहारिणे । सुमधुरमुरलीरवाहूतसप्रेमगोपालिकादृक् चकोरीचमत्कारिणे [ ६७ नम इह मम तुभ्यमुद्यन्महाघोरकंसासुरप्रेषितद्वेषिसंहारिणे ॥ २८० ॥ अस्मिन् दण्डके प्रतिचरणमेकैकरगणवृद्धौ श्रर्ण-प्रणव- व्याड जीमूतादिनामानो दण्डका भवन्ति । तत्राष्टभी रगणैरर्णार्णवः । नवभिर्व्याहः । दशभिर्जीमूतः । एवं नामानि भवन्ति । यथा जय जय जय देव गोवर्द्धनोदारभूमीधराधीशवृन्दाटवीचारिणे धृष्णवे चरणकमलचारुपङ्केरुहान्तभ्रं मन्मत्तभृङ्गायितश्री मनोहारिवर्तिष्णवे । सुमधुरमुरलीरवाहूतसप्रेमगोपालिकादृक् चकोरीचमत्कारिणे जिष्णवे नम इह मम तुभ्यमुद्यन्महाघोरकंसासुरप्रेषितद्वेषिसंहारिणे विष्णवे ।। २८१। जय जय जय देव गोवर्द्धनोदारभूमीधराधीशसंशोभिवृन्दाटवीचारिणे धृष्णवे चरणकमलचारुपङ्केरुहान्तभ्रं मन्मत्तभृङ्गायितश्री मनोहारिणे रासवर्तिष्णवे । सुमधुरमुरलीरवाहूतसप्रेमसन्दोहगोपालिकादृक्चकोरीचमत्कारिणे जिष्णवे नम इह मम तुभ्यमुद्यन्महाघोरकंसासुरप्रेषिताशेषविद्वेषिसंहारिणे विष्णवे ।। २८२ ।। जय जय जय देव गोवर्द्धनोदारभूमीधराधीशसंशोभिसानन्दवृन्दाटवीचारिणे धृष्णवे । चरणकमलचारुपङ्केरुहान्त भ्रं मन्मत्तभृङ्गायितश्रीमनोहारिणे सन्ततं रासवर्तिष्णवे । सुमधुरमुरलीरवाहूतसप्रेम सन्दोहसाकूतगोपालिकादृक् चकोरी चमत्कारिणे जिष्णवे । नम इह मम तुभ्यमुद्यन्महाघोरकंसासुरप्रेषिताशेषविद्वेषिभूपाल संहारिणे विष्णवे ॥ २८३ ॥ इत्यादि, एवं प्रतिचरणं शतावधिरगणवृद्धो महाचण्डवृष्टिर्नाम दण्डको भवति । यथा श्री रामचन्द्रस्तुति: 'जय जय पाल जय देव भूमीतलेन्द्र श्रियातन्द्रचन्द्रद्युते रामचन्द्र क्षमाशक्रादिदिक्पालतेजःस्फुरच्चण्डकोदण्डदण्डस्फुटोद्गीर्णबाणावली शीर्ण
SR No.023459
Book TitleVruttamuktavali
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1963
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy