SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ६२ ] एष वियोगिलोकभयवितरणसद्गतिधारणधीरः कामनिदेशवश्य इह विसरति मानिनि मारुतवीरः ।। २५६ । श्रथापरहंसीच्छन्द: वृत्तमुक्तावल्याम् विद्युन्मालापादस्यान्ते विलसिततररविलघुगणयुक्त तस्याप्यन्ते नित्यं राजद्गुरुयुगविरचनसुललितमुक्तम् । हंसीनामच्छन्दो वेद्यं सकलसुकविजनकृतसुखदानं दिग्भर्लोकैर्यत्या रुच्यं निरुपमचतुरिमनिचयनिदानम् ।। २६० ।। यथा-उच्चैराशाः फुल्लत्काशाः कलितविषमदल विपिनविकासाः कञ्जे कञ्जे भृङ्गश्रेण्यः कलितललिततररवधृतपाशाः । जाग्रज्ज्योत्स्नाजालज्वाला दिशि दिशि विकलितसविरहबाला सम्प्रत्येषाऽऽयाता लोके शरदनुपमरुचिकलनविशाला ।। २६१ ।। श्रथ सुन्दरीवृत्तम् सगणद्वययुक्तं भगणनिरुक्तं सादनु वक्रयुगाकलितं सगणत्रयशोभं विरचितलोभं मञ्जुलवर्णतया ललितम् । भण सुन्दरवृत्तं मोहितचित्तं पण्डितलोकमनोवलितं रसपुञ्जसमेतं सम्पदुपेतं पादचतुष्कसदाचलितम् ॥ २६२ ॥ यथा - प्रतिसुन्दररूपं त्रिभुवनभूपं दत्तभवोदधिसन्तरणं दशकन्धरकालं समरकरालं जातपुरन्दरसत्करणम् । धृतदुर्धरचापं कुशलकलापं सन्ततसत्पथसञ्चरणं नितरामभिरामं भज भज रामं साधुसमूहसदाशरणम् ।। २६३ ॥ श्रथ सवैया - सप्त भगणा गुरुश्चैकोन्ते, द्वौ वा अष्टौ भगणा एव वा, सगणा एव वा इति चतुर्द्धा सवैयाच्छन्दः । क्रमेणोदाहरणानि - पीतदुकूल तडिद्युतिवृन्दसुदीपितभक्तमनोगगने बर्हिणचन्द्रकचारुकिरोटपुरन्दरचापसमुद्वहने । वेणुरवामृत गर्जितशालिनि पालितसज्जनचित्त वने पातकपूरित चातकपोत न यासि कथं नवनीलघने ।। २६४ ॥ हासविलासविकासवती रुचिरूपल सन्मकरन्दरसाला मोहितचित्तमधुव्रतराजसभाजित सन्ततसौरभशाला ।
SR No.023459
Book TitleVruttamuktavali
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1963
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy