SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः इत्यनेन चारुदत्सवधाभ्युदयानुकूलप्रसङ्गाद् गुरुकीर्तनमिति प्रसङ्गः। मनश्चेष्टासमुत्पन्न श्रम खेद इति स्मृतः । मनःसमुत्पन्नो यथा मालतीमाधवे'दलति हृदयं गोढोद्वेगो द्विधा न तु भिद्यते वहति विकलः कायो मोहं, न मुऋति चेतनाम् । ज्वलयति तनूमन्तदोहः, करोति न भस्मसात् प्रहरति विधिर्ममच्छेदी, न छन्तति जीवितम् ।।' रवं चेष्टासमुत्पन्नोऽपि। लक्ष्ये लक्षण संगमयति-इत्यनेनेति । इति = एवम्, अनेन = गद्यपद्यात्मकवाक्यसमूहेन, चारुदत्तेत्यादिः = चारुदत्तस्य वद्याऽभ्युदययोः ( व्यापादनोन्नत्योः ) अनुकूलप्रसङ्गात् ( अनुगुणाऽवसरात् ) गुरुकीर्तनमिति "प्रसङ्गमः ।" खेदं लक्षयति -- मनश्चेष्टासमुत्पन्न इति । मनश्चेष्टासमुदामः - मनसा ( चित्तेत ) चेष्टया ( शरीरब्यापारेण ) च समुत्पन्नः ( संजातः ) श्रमः खेदो" नाम विमर्शसन्धेरङ्गन् । मनः समुत्पन्नं खेदमुदाहरति-वलतीति । मालतोशाकान्माषवस्योक्तिरियम् । गाढोद्वेगः = प्रियाविरहाद्वदुःखावेगः, हृदय = हृद, दलति = खण्डयति, तु= परन्तु, द्विधा = प्रकारद्वयेन, न भिद्यते = नो विदीर्यते । विकल: = विह्वलः, कायः = शरीरं, मोहं = मूर्छा, वहति = प्राप्नोति, पर चेतना = चैतन्यं, न मुञ्चति = न त्यजति । अन्तर्दाहः = अन्तःकरणसन्तापः, तनू = शरीरं ज्वलयति = सन्तापयति, किन्तु भस्मसात् = भस्माऽधीनं, न करोति = नो विदधाति । मर्मच्छेदी = मर्मस्थलविवारकः, विधिः - नियतिः, प्रहरति = ताडयति, परं जीवित = जीवनं, न कृन्ततिन छिनति, हरिणी वृत्तम् । अत्र माधवस्य मालतीशोकेनोत्पन्नस्य श्रमस्य मनःसमुत्पन्नत्वात्खेदो नाम विमशंसन्धेरङ्गम् ।। इस पयसे चारुदत्तका वध और अभ्युदयके अनुकूल प्रसङ्गसे 'गुरुकीर्तन" होनेसे "प्रसङ्ग" हुआ है । मन और शरीरकी चेष्टासे उत्पन्न परिश्रमको खेद" कहते हैं । मनसे उत्पन्न परिश्रम ''खेद" जैसे मालतीमाधवमें-विरहसे दृढ उद्वेग हृदयका खण्डित कर रहा है, परन्तु हृदय विदीर्ण नहीं होता है । विह्वल शरीर मूर्छाको प्राप्त कर रहा है, परन्तु चैतन्यको नहीं छोड़ता है । अन्तःकरणका सन्ताप शरीरको सन्तप्त कर रहा है किन्तु भस्य नहीं करता है । मर्मस्थल में भेदन करनेवाला भाग्य प्रहार कर रहा है, पर जोबनको नष्ट नहीं करता है । इसी तरह शरीरकी चेष्टासे उत्पन्न खेदका की ऊह करें।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy