________________
उपमालछारप्रकरणम्
अत्र धारितधृतशब्दाभ्याम् एकार्थ'प्रतिपादनात् वस्तुप्रतिवस्तुभावः । (ii) बिम्बप्रतिबिम्बभावेन 'निर्देशो यथा - __. विधृतचिररत्नहारो रामस्साकेतपट्टणे भाति ।।
'विपिने यथा वसन्तः सद्यः संफुल्लपुष्पमालाङ्कः ।। अत्र हारपुष्पमालिकयोः सादृश्येन 'रामवसन्तयोः सादृश्यमिति बिम्बप्रतिबिम्बभावः । -
पुनरपि द्विविधोपमा-समस्तवस्तुविषया-एकदेशवर्तिनी चेति । (i) तत्र समस्तवस्तुविषयोपमा यथा -
दोर्दण्डौ विटपाविवोपचयको मुक्ता विभूषोज्वला: __सम्फुल्लाः कलिका इवाङ्गकिरणा संसर्गिभृङ्गा इव । भक्तभ्यो ननु धर्मकाममुखराभीष्टानि दत्तान्यहो
दिव्यानीव फलानि कल्पविटपीवाभाति 'सीतापतिः ॥ (ii) एकदेशवर्तिनी यथा - बालातपेनेव सपीतवाससा
समुद्यता चण्डरुचेव मौळिना ।
. 'प्रतिपादकात्-त 'सकृन्निर्देशो यथा-न 'विधृतनिर्मलहारो रामस्साकेतपट्टणे भाति-त,न 'पाति-मा 'विपिने च तथा वसन्तः–त 'रत्नावतंसमो:-आ। 'शार्दूलविक्रीडितवृत्तम् । 'सूर्याश्वैर्मसजास्ततः सगुरवः शाल. विक्रीडितम्' इति तल्लक्षणं वृत्तरत्नाकरे ।