SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सन्देहासकारप्रकरणम् तथाप्यपकृतकोश्यन्तरपर्यवसानादेव तदुपपद्यते / अप्रकृतकोट्यन्तरानुपनिबन्धस्थले तार्किकादिमतेषु उत्कटकोटिकसंशयवदेककोटिकसंशयत्वेनाप्युपपत्तेः / अन्यथा विषयविशेषांशस्य सन्देहकल्पनायाम् अनुभवविरोधं कों वारयेत् / अत एव विद्याधरसाहित्यचिन्तामणिकारादिमिरप्रकृतार्थ एव मन्देहो लक्षणे दर्शितः / तथा कविमिरपि कापि प्रकृतप्राकृतकोटिकसंशयेन उपनिबध्यते / "किमिन्दुः किं पचं किस मुकुरबिम्ब किमु मुख किमब्जे किं मीनौ किमु मदनवाणी किमु दृशौ / ' इत्यादावपि किंशब्दस्याव्ययत्वेन भनेकार्थत्वात् अवधारणार्थतया निश्चयपर्यवसायिसंशय एवेति बोध्यम् / न च अनाहितसंशयाभावेऽपि प्रकृते 'विशेष्यांशे आहितसंशयो जात एवेति वाच्यम् / 'किमेष चन्द्रः किम वा महेन्द्रः किं वा गिरीन्द्रः किमु किन्नरेन्द्रः / पयोदधीन्द्रस्सुगुणौघसान्द्रो विशङ्कितोऽभूदिति रामचन्द्रः // ' इत्यादौ / महेन्द्रत्वादिकम् अत्र वर्तते नवेति महेन्द्रत्वादिवृत्तिमत्वावृत्तिमत्व कोटिकस्यैव आहितसंशयस्य जायमानत्वात् / न चैवं तस्य कोटिद्वयानवलंबित्वे सति संशयपदाभिलक्ष्यत्वाभाव इति वाच्यम् / उक्तोत्तरत्वात् | लोकेऽपि स्थाणी पुरुषवल्मीकावेत्यप्रकृतमात्रकोटिकसंशयस्य दृष्टत्वात् / अतोऽलकारसर्वस्वकारलक्षणम् असम्भवीति सिद्धम् / एतेन विद्यानाथलक्षणमपि दूषितमेवेति बोध्यम्। ' विशेषांशे-न ' उपजातिवृत्तम् / 'कोटिकस्यैवापि संशयस्य-आ.... ...
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy