________________ मलकारराव 'विषयो विषयी यत्र सादृश्यात् कविसंमतात् / सन्देहगोचरौ स्याता सन्देहालंकृतिश्च सा // ' इति विद्यानाथः / तत्र न तावत् काव्यप्रकाशकारोक्तं सन्देहालकारसामान्यलक्षणं युक्तम् / भेदोक्तसन्देहस्य अभेदानुक्तासन्देहालकारेऽव्याप्तिः। भेदानुक्तासन्देहस्य भेदोक्तसन्देहालहारेऽव्याप्तेः / न च तदुभयसमुच्चय एव सन्देहालकारसामान्यलक्षणमिति वाच्यम् / असम्भवप्रसङ्गात् / नापि तदन्यतरस्सन्देहालकारः। अन्यतरशब्दार्थस्य प्राक्तनन्यायेन दूषणीयत्वात् / अतो न काव्यप्रकाशकारलक्षणं युक्तम् / यत् अलङ्कारसर्वस्वकारलक्षणं तदपि नोपपन्नम् / निश्चयान्तसंशये अव्याप्तेः / तत्र निश्चयदशायां विषयस्य असन्दिह्यमानत्वात् / ननु विषयस्य सन्दिह्यमानत्वात्यन्ताभावानधिकरणत्वं विवक्षितमिति चेत्तर्हि असम्भवप्रसाः। प्रकृतार्थ भित्तीकृत्य अप्रकृतार्थ एव सन्देहोपनिबन्धनात् / न च प्रकृतस्य भित्तीभूतस्यापि संशयगोचरत्वेन संदिह्यमानत्वं स्यादिति वाच्यम् / 'तत्र धय॑शत्वेन तदंशे सन्दियमानत्वाभावात् / सर्वस्यापि संशयस्य धयंशे निश्चयरूपत्वात् / न च भित्तीभूते प्रकृतार्थे सामान्यांशे निश्चयविशेषांशे सन्दिह्यमानत्वमेवेति वाच्यम् / कविप्रतिभाकल्पितसन्देहस्य प्रकृतविशेषांशे विशेष दर्शनसत्वेन तदभावात् / न चाप्रकृतार्थसंशयापर्यव. सानात् प्रकृतविशेषांशस्यापि सन्दिह्यमानत्वमनिवार्यमिति वाच्यम् / 'प्रकृ. तार्थभित्तिकाप्रकृतसंशयस्य प्रकृतार्थेतरसंशयप्रकाशनेनैव पर्यवसानात् / प्रकृते सन्देहानवकल्पनात् / ननु सन्देहस्य कोटिद्वयावलम्बत्वेन इतरकोटिं विना न पर्यवसानम् इति विषयस्यापि सन्दिधमानत्वं स्यादेवेति चेत् उच्यते / 1 व्याप्तेः-त 'तस्व-त,म. 'दर्शनपदत्वेन-त 'प्रकृतार्थमित्तिकाप्रकृतसंशयप्रकृतार्थेति संशयप्रकाशेनैव पर्यवसानात्-त