________________
xxi
रामाज्ञया स्वमनिरूढया मे विनिर्मितेऽलंकृति राघवेऽस्मिन् ।
न युक्तिदौर्बल्यमुदाहृतीनां
न मान्यमित्यादरयन्तु सन्तः ॥ इत्युक्तम् ।
तथा - शब्दालङ्कारप्रकरणस्यान्ते
रामाङ्कितं जगति यः शब्दालङ्कारजातमाद्रियते । सोऽयं विशब्दो भवति दिगन्तेषु विश्रुतः पुरुषः ।
FIND
इत्यप्युक्तत्वात् स्वप्नकृत भगवद्रामाज्ञानुसारेणैव प्रन्थरत्नमिदम् अलङ्कार - राघवम् इति विरचितमिति ज्ञायते । अनन्यरामभक्तोऽयं ग्रन्थे सर्वत्र स्वभक्तिमुदाहरणेषु समाप्तिवाक्येषु च प्रदर्शयति । दिष्मात्रमुदाह्रियते ।
ग्रन्थारम्भे मङ्गलपद्येषु पद्यद्वयं यथा
-
१) आरक्षकं भक्तजनालयानाम् अधीश्वरश्वावनिमण्डलानाम् । आराध्यदेवं निखिलासुराणां धानुष्कमेक हृहि धारयामः ॥
२) सपङ्कापि कवेर्वाणी हरिनामांकिता यदि । सादरं गृह्यते सद्भिः शक्तिमुक्तान्विता यथा ॥ अर्थालंकारप्रकरणस्यान्ते—
३) अर्थालङ्कारमयं प्रकरणमेतञ्जगत्सु यः पठति । रामप्रसादतोऽयं भुवनालङ्कारभावमाप्नोति ॥