________________
XX
. अद्भुतरामः इति नाटकमप्येकमनेन सुनिबद्धमिति अलङ्कारराघवे उद्धतैर्वाक्यैरवगम्यते । । एतन्नाटकं नाट्य प्रकरणस्य उदाहरणरूपं नाटकम् | विद्यानाथेन यथा प्रतापरुद्रीये नाटकप्रकरणस्य नाटकमेकमुदाहरणत्वेन निर्मितं तथैव अनेनाऽपि कृतमिति ज्ञायते । अस्मिन् नाटके राम एव नायकः । सीतैव नायिका । रामस्य पराक्रमातिशयः सम्यक् वर्णितः अत्र । 'अद्भुतराम ' नाटकस्य कर्ता यज्ञेश्वरदीक्षितः इत्यत्र मन्थप्रमाणमेव मस्तिनाटकप्रस्तावनायां सूत्रधारः एवं वदति -
१) विनिर्मितं श्रीचर कूरि कोण्डधीवरेण्ययज्ञमौलिना ।
रसज्ञरम्यरसपोषभूषितं प्रयुज्यतामद्भुतरामनाटकम् ॥ ( सहर्षम् ) अस्मदभिनयकौशलानुरूपमेव नाटकमभ्यनुज्ञातं सामाजिकैः । यत्र चश्रीरामभक्तिभाजां चेतसि रमणीयम खिललोकानाम् । अत्यद्भुतं चरित्रं विनिबन्धं साधु रामचन्द्रस्य ॥ इति ।
२) नाटकसमाप्तौ – ' इति श्री चरकूरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसोदरेण विरचिते अलङ्कारराघत्रे दशरूपप्रकरणं सम्पूर्णम्' इत्युक्तम् । अतः ' अद्भुतरामनाटककर्ता यज्ञेश्वरदीक्षित इत्यवगम्यते ।
6
अलङ्कारराघवम् ' इति नमकर गौचित्यम्
ग्रन्थस्यास्य 'अलङ्कारराघवम्' इति नाम अङ्कितम् । अत्रापि ग्रन्थ
कारवचनमेव प्रमाणम् । उपोद्घातप्रकरणस्य आरम्भे
de