SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ १५० वक्रोक्तिजीवितम् [३.१३ वर्णनीयान्तरे रूपकादिवत् तद्विरुद्धस्य समृद्धि रहितस्य वर्णनीयान्तरस्य चालंकारत्वप्रसंगात् उदात्तस्य न कथंचिदपि भूषणत्वोपपत्तिरस्ति । तथा द्वितीयस्याप्युदात्तप्रकारस्यालंकार्यत्वमेवोपपन्नं, न पुनरलंकारभावः । तथा चैतस्य लक्षणम् - "........... चरितं च महात्मनाम् । उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतम्" ।। ५५ रवगध }} इति । तत्र वाक्यार्थपरमार्थविद्भिरेवं पर्यालोच्यताम्, यन्महानुभावानां व्यवहारस्य लक्षणमात्रवृत्तेरन्वयः प्रस्तुते वाक्यार्थे कश्चित् विद्यते न वेति। तत्र पूर्वस्मिन् पक्षे तत्र तदलीनत्वात् पृथगभिधेयस्यापि पदार्थान्तरवत् तदवयवत्वेनैव व्यपदेशो न्याय्यः, पाण्यादेरिव शरीरे, न पुनरेवालंकारभावोऽपि इति । द्वितीयस्मिन् पक्षे तदन्वयाभावादेव वाक्यान्तरवर्तिपदार्थवत् तत्र तस्य सत्तैव न संभवति इति न पुनरलंकारचर्चा । ननु च रूपकादेरलंकारस्यापि तत्रान्वयो विद्यते, ततस्तस्यापि तदन्वितत्वात् अलंकारता निवर्तते । सत्यमेतत् , किं तु तदन्वितस्य द्वैविध्यं विद्यते, अपकर्षान्तरवत् प्रस्तुततात्पर्याङ्गभावेन, विभषणान्तरवत् तदुपशोभाकारित्वमात्रेणैव च। तत्र पूर्वस्मिन् पक्षे युक्तिरुक्तैव । तद्विच्छित्तिविधायित्वमात्रे महापुरुषचरितस्य दूषणानीति न दुष्परिहराण्येव। तद्विरुद्धवृत्तेर्वर्णनीयान्तरस्यालंकारत्वप्रसङ्गः । अलंकारान्तरसंनिधाने तदपेक्षानिबन्धनसंसृष्टिसंकरव्यपदेशयोग्यता, विषयान्तरेऽप्यलंकारान्तरवत् प्रवर्तनं चेति । यदपि समञ्जसोदाहरणबन्धनव्यसनितया पूर्वसूरिभिरत्रादरप्रथनपूर्वकं प्रतिष्ठितम् , तदपि प्रस्तुततात्पर्यपरायत्तवृत्तित्वादेव (सहृदयभाव) नां प्रति मनागपि न पात्रता प्रतिपद्यते ।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy