SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ३.१३] तृतीयोन्मेषः १४९ तस्मादेवंविधस्य चित्तवृत्तिविशेषत्वात् रसभावतदाभासानां यथायोगमेकतमस्मिन् विवक्षावशादन्तर्भावः संभवतीत्यलंकार्यत्वमेव युक्तम् न त्वलंकारभाव इति । तस्मान्न रसवदाद्यभिहितदूषणपात्रतामतिकामति । तदेतदुक्तमत्र सर्वमेव योजनीयम् । तद्वद्“अपकर्ताहमस्मि” इत्यपरमदाहरणमनेनैव न्यायेन समानयोगक्षेमप्रायमिति गतार्थमेव । एवमुदात्तस्योभयप्रकारस्याप्यलंकार्यतैव युक्तिमती न पुनरलंकरणत्वं, तत्र प्रथमस्य तावल्लक्षणवाक्यमेव दुरधिगमसमन्वयम् उदात्तमृद्धि मद्वस्तु ।। ५५क।। इति । अत्र यद्वस्तु तदुदात्तम्, अलकरणं कीदृशमित्याकाङ्क्षायाम् ऋद्धिमदित्यनेन यदि विशेष्यते तत्तदेव संपदुपेतं वस्तु वर्ण्यमानमलंकार्यं तदेवालंकरणमिति स्वात्मनि क्रियाविरोधलक्षणस्य दोषस्य दुनिवारत्वात् स्वरूपादतिरिक्तस्य वस्त्वन्तरस्याप्रतिभासनात् ऊर्जस्विवदुदात्तेऽ (पि भूष)णभावानुपपत्तिः । अथवा ऋद्धिमद्वस्तु यस्मिन् यस्येत्यपि व्याख्यानं क्रियते, तथापि तदन्यपदार्थलक्षणं वस्तु वक्तव्यमेव यत्समासार्थोपनीतम् । तत्काव्यमेव तथाविधं भविष्यतीति चेत्तदपि न किंचिदेव, यस्मात् काव्यस्यालंकार इति प्रसिद्धिर्न पुनः काव्यमेवालंकरणमिति । ___ यदि वा ऋद्धिमद्वस्तु यस्मिन् यस्य वा इत्यसावलंकारः (एव) समासार्थनोपनीयते तथापि वर्णनीयादतिरिक्तमलंकरणकल्पमन्यदत्र (न किं) चिदेवोपलभ्यते इत्युभयथापि शब्दार्थासंगतिलक्षणो दोषः संप्राप्तावसरः संपद्यते। किं चोदात्तस्यालंकरणत्वे सति, अलंकरणान्तरविधानात् तदक्षानिबन्धनस्य संसृष्टिसंकरव्यपदेशस्याप्रसिद्धरन्यस्मिन् विषये
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy