SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ द्वितीयोन्मेष: १०३ २.२५] शयाभिधानं न केनचित् क्रियान्तरेण कर्तुं पार्यत इति क्रियावैचित्र्यनिबन्धनं वक्रभावमावहति । यथा च रुद्दस्स तइअणअण पव्वइपरिचुम्बिअंजअइ ।। ८४ ।। रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति ।। इति छाया। यथा वा सिढिलिअचाओ जअइ मअरद्धओ ।। ८५।। शिथिलीकृतचापो जयति मकरध्वजः ।। इति छाया। एतयोर्वैचित्र्यं पूर्वमेव व्याख्यातम् । अयमपरः क्रियावैचित्र्यवक्रताया: प्रकार:-कत्रन्तरविचित्रता। अन्य: कर्ता कञन्तरं तस्माद्विचित्रता वैचित्र्यम् । प्रस्तुतत्वात् सजातीयत्वाच्च कर्तुरेव । एतदेव च तस्य वैचित्र्यं यत् क्रियामेव कञन्तरापेक्षया विचित्रस्वरूपां संपादयति । यथा नैकत्र शक्तिविरति: क्वचिदस्ति सर्वे भावा: स्वभावपरिनिष्ठिततारतम्याः । आकल्पमौर्वदहनेन निपीयमान मम्भोधिमेकचलकेन पपावगस्त्य: ।। ८६ ।। अत्रैकचुलकेनाम्भोधिपानं सतताध्यवसायाभ्यासकाप्ठाधिरूढिप्रौढत्वाद्वाडवाग्ने: किमपि क्रियावैचित्र्यमुट्ठहत् वक्रता मुन्मीलयति । यथा वा प्रपन्नार्तिच्छिदो नखा: ।। ८७ ।। यथा वा स दहतु दुरित गाम्भवो वः शराग्निः ।। ८८ ।। एतयोवैचित्र्यं पूर्वमेव प्रदर्शितम् ।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy