________________
कोक्तिजीवितम
[२.२४-२५
क्रियावैचित्र्यनिबन्धनमेव वक्रत्वं विद्यते । तस्मात् क्रियावैचित्र्यस्यैव कीदृशाः कियन्तश्च प्रकाराः संभवन्तीति तत्स्वरूपनिरूपणार्थमाह-
ܕ ܕ
कर्तुरत्यन्तरङ्गत्वं कर्त्रन्तरविचित्रता । स्वविशेषण वैचित्र्यमुपचारमनोज्ञता ॥ २४ ॥ कर्मादिसंवृतिः पञ्च प्रस्तुतोचित्यचारवः । क्रियावैचित्र्यवऋत्वप्रकारास्त इमे स्मृताः ।। २५ । क्रियावैचित्र्यवकत्वप्रकारा धात्वर्थविचित्रभाववत्रताप्रभेदास्त इस स्मृता वर्ण्यमानस्वरूपाः कीर्तिताः । कियन्तः - पञ्च पञ्चसंख्याविशिष्टाः । कीदृगाः - प्रस्तुतचित्यचारवः । प्रस्तुतं वर्ण्यमानं वस्तु तस्य यदचित्यमुचितभावस्तेन चारवो रमणीयाः । तत्र प्रथमस्तावत् प्रकारो यत् कर्तुरत्यन्तरङ्गत्वं नाम । कर्तुः स्वतन्त्रतया मुख्यभूतस्य कारकस्य क्रियां प्रति निर्वर्तयितुर्यदत्यन्तरङ्गत्वम् अत्यन्तमान्तरतम्यम् । यथा
चूडारत्ननिपष्णदुर्वहजगद्भारोन्नमत्कन्धरी धत्तामुद्वरतामसी भगवतः शेषस्य मूर्धा परम् । स्वैरं संस्पृशतीषदप्यवनति यस्मिन् लुठन्त्यक्रमं शून्ये नूनमियन्ति नाम भुवनान्युद्दामकम्पोत्तरम् ।। ८२ ।। अत्रोद्धुरता वारणलक्षणक्रिया कर्तुः फणीश्वरमस्तकस्य प्रस्तुत - चित्यमाहात्म्यादन्तर्भावं यथा भजते तथा नान्या काचिदिति क्रियावैचित्र्यवक्रतामावहति । यथा वा
किं शोभिताहमनयेति पिनाकपाणे:
पृष्टस्य पातु परिचुम्बनमुत्तर वः ॥ ८३ ॥
अत्र चुम्बनव्यतिरेकेण भगवता तथाविधलोकोत्तर गौरी शोभाति