SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ( ५२ ) आत्मनेपदम् ॥१॥ अवन्तादु व्यञ्जनान्ताच्च परस्य सप्तम्या यथालक्ष्य लुप् । कण्ठेकालः, युधिष्ठिरः, स्तम्बेरमः, पूर्वाह्न. तनः, सरसिजम् । क्वचित् षष्ठयादेर्लोपोन-देवानांप्रियः ॥२॥ ॥ इत्यलुक्समासः ॥२५॥ || २६-अथ समासाश्रयविधिः ॥ बहुब्रीही सु-संख्यात् परस्य हस्त्यादिवजितोपमानात् परस्य च पादस्य पात् स्यात्। सुपात्, द्विपात्, व्याघ्रपात्, शसादिस्यादौ पादः पद् इति-सुपदः॥१॥ तत्पुरुषे कोः कत् स्यात् । कदन्नम्, पुरुषे तु वाकापुरुषः, कुपुरुषः, उष्णे तु-का-कव' इति वाकोष्णं कवोष्णं कदुष्णम् ॥२॥ कृत्यप्रत्ययान्तोत्तरपदे अवश्यमो मो लुक् । अवश्यकार्यम् ॥३॥ तुमो मस्य मनः-कामे परे लुक् स्यात् । भोक्तुमनाः, गन्तुकामः ॥४॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy