SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् सूत्रभणितेनागमोक्तेन विधिना यतनालक्षणेन गृहिणा श्रावकेन निर्वाणमिच्छता मोक्षमभिलषता लोकोत्तमानामर्हदादीनां पूजा अभ्यर्थनादिरूपा नित्यमेव भवति कर्तव्या ततश्च न युक्तः प्रतिषेध इति ।। ३५० ।। ३८ * पञ्चाशके - ४/४६ * अथ पूजाविधिमुपसंहरंस्तद्विषयमुपदेशमाह सुत्तभणिण विहिणा गिहिणा णिव्वाणमिच्छमाणेणं । तम्हा जिणाण पूजा कायव्वा अप्पमत्तेणं ।। सूत्रभणितेनागमोक्तेन विधिना विधानेन पूजा कर्तव्येति सम्बन्धः । केनेत्याह - गृहिणा गृहस्थेन साधोरनधिकारित्वात् । किंविधेनेत्याह-निर्वाणं निर्वृतिमिच्छता वाञ्छता निर्वाणव्यतिरिक्तस्य फलस्योपायान्तरेणापि सुलभत्वात् । 'तम्ह' त्ति तस्माज्जिनानां कृतकृत्यत्वेनानुपकारेऽपि पूजकस्योपकारी भवति, तथा जिनपूजायामप्रवर्तनं मोहादेव, तस्माद्धेतोर्जिनानामर्हतां पूजाऽर्चनं कर्तव्या विधेया ऽप्रमत्तेनाप्रमादवता प्रमादपरिहारेणेति यावत् । इति गाथार्थः ।। ४६ ।। चक्रे० : विधिनेत्युक्तमथ तमेव पुरस्कुर्वन्तः प्राहुः - - देव० : विधिनेत्युक्तमथ विधिमेव पुरस्कुर्वन्नाह आसन्न सिद्धियाणं विहिपरिणामो उ होइ सयकालं । विहिचाउ अविहिभत्ती अभव्वजियदूरभव्वाणं ।। २७ ।। चक्रे० : सुगमैव, केवलं विधिरागमोक्तः क्रियाकल्पः । 'सयकालं' ति सदाकालं 'विहिचाउ' त्ति विधित्यागः । । २७।। देव० : आसन्ना स्वल्पकालप्राप्यतया समीपवर्त्तिनी सिद्धिर्मुक्तिर्येषां ते यथा तेषामेव विधिः समयभाषया सर्वक्रियासु सूत्रोक्तो न्यायस्तस्य परिणामो रुचिः । तुरेवार्थो योजित एव भवति । सदाकालमिति लोकरूढ्या सर्वकालार्थे विधित्यागोऽविधिभक्तिश्चाविधिसेवा, जीवशब्दस्यान्ते सम्बन्धादभव्यदूरभव्यजीवानां भवतीत्यत्रापि योगः । तत्राभव्या मुक्तिगमनायोग्याः, दूर उपार्धपुद्गलपरावर्त्तात्परतो भव्यत्वं येषां ते दूरभव्या इति गाथार्थः ।।२७।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy