________________
१-देवतत्त्वम् गा-२६
३७
चक्रे० : अथ पूजागतमेव विधिशेषमाहुः - देव० : अथ पूजागतमेवोपदेशशेषमाह -
सुत्तभणिएण विहिणा गिहिणा निव्वाणमिच्छमाणेण ।
लोगुत्तमाण पूया निचं चिय होइ कायव्वा ।।२६।। चक्रे० : सूत्रभणितेन विधिना न स्वमतिकल्पितेन यतः -
समतिपवित्ती सव्वा आणाबज्झत्ति भवफला चेव । तित्थयरुद्देसेण वि न तत्तओ सा तदुद्देसा ।। [पञ्चा० ८-१३] विधिश्च - काले सूइभूएणं विसिट्ठपुप्फाइएहिं विहिणा उ । सारथुइथोत्तगरुई जिणपूया होइ विन्नेया ।। [पञ्चा० ४-३]
शेषं स्पष्टम् ।।२६।। देव० : चियेत्येवार्थे यथासम्भवं योज्यम्, सूत्रभणितेनैव विधिना, यतः -
समतिपवित्ती सव्वा आणाबज्झत्ति भवफला चेव । तित्थयरुद्देसेण वि न तत्तओ सा तदुद्देसा ।। [पञ्चा० ८-१३] विधिश्च - काले सूइभूएणं विसिट्ठपुष्फाइएहिं विहिणा उ ।
सारथुइथोत्तगरुई जिणपूया होइ विन्नेया ।। [पञ्चा० ४-३] गृहिणैव न त्वनगारेण, तस्यानधिकारित्वाद्, एतेनाधिकारी प्रत्यपादि, निर्वाणमेवेच्छता, यतः- 'नरविबुहेसरसोक्खं' इत्यादि, किञ्चार्थान्तरस्यान्यथापि प्राप्यत्वात्, लोकः सामान्येन भव्यसत्वलोकः सजातीयोत्कर्ष एवोत्तमत्वोपपत्तेस्तस्य सकलकल्याणैकनिबन्धनतया भव्यत्वभावेनोत्तमा अर्हन्तस्तेषां पूजा नित्यमेव भवति कर्तव्येति गाथार्थः ।।२६।।
___* श्रावकप्रज्ञप्तौ-३५० * सुत्तभणिएण विहिणा गिहिणा निव्वाणमिच्छमाणेण । लोगुत्तमाण पूया निचं चिय होइ कायव्वा ।।