SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् पल्योपमदशकोटीकोट्यात्मकानि सागरोपमाणि, अवसर्पिण्युत्सर्पिण्यश्च पूर्वोक्तमानाः, किमित्याह-कालो भणित इति सम्बन्धः । इह चानुक्ता अपि प्राणस्तोकलवादयः कालविशेषाः स्वयं ज्ञेया उपलक्षणत्वात् सूत्रस्येति गाथार्थः ।। २३९ ।। * आवश्यकनिर्युक्तौ -६६३ * ३२८ अद्धाकालद्वारावयवार्थं व्याचिख्यासुराह समयावलिय मुहुत्ता दिवसमहोरत्त पक्ख मासा य । संवच्छर युग पलिया सागर ओसप्पि परियट्टा ।। तत्र परमनिकृष्टः कालः समयोऽभिधीयते स च प्रवचनप्रतिपादितपट्टशाटिकापाटनदृष्टान्तादवसेयः, आवलिका असङ्ख्येयसमयसमुदायलक्षणा, द्विघटिको मुहूर्त्तः, दिवसश्चतुष्प्रहरात्मकः, यद्वा आकाशखण्डमादित्येन स्वप्रभाभिर्व्याप्तं तद्दिवसं इत्युच्यते, शेषं निशेति, अहोरात्रमष्टप्रहरात्मकमहर्निशमित्यर्थः, पक्षः पञ्चदशाहोरात्रात्मकः, मासस्तद्विगुणः चः समुच्चये, संवत्सरो द्वादशमासात्मकः, युगं पञ्चसंवत्सरम्, असङ्ख्येययुगात्मकं पलितमिति उत्तरपदलोपाद्, इत्थं सागरोपममपि, तत्र पल्योपमदशकोटी कोट्यात्मकं सागरमाख्यायते, उत्सर्पिणी सागरोपमदशकोटीकोट्यात्मिका, एवमवसर्पिण्यप, परावर्त्तोऽनन्तोत्सर्पिण्यवसर्पिण्यात्मकः, स च द्रव्यादिभेदभिन्नः प्रवचनादवसेय इति गाथार्थः । । ६६३ ।। * विशेषावश्यकभाष्ये- २०३६ * के पुनस्ते समयादयोऽद्धा कालभेदाः ? इत्याह नियुक्तिकारः समया -ऽऽवलि मुहुत्ता दिवसमहोरत्त पक्ख मासा य । संवच्छर युग पलिया सागर ओसप्पि पलियट्टा ।। इह निर्विभागः परमसूक्ष्मकालांशः समयो भण्यते । स च प्रवचनप्रतिपादितोत्पलपत्रशतपट्टसाटिकापाटनदृष्टान्ताद् विशेषतः समवसेयः । असंख्येयसमयसमुदयसमितिसमागमनिष्पन्ना आवलिका । द्विघटिको मुहूर्त्तः । दिवसकरप्रभाप्रकाशितनभःखण्डरूपः, चतुष्प्रहरात्मको वा दिवसः । सूर्यकिरणस्पृष्टव्योमखण्डरूपः, चतुष्प्रहरात्मको वा दिवसः, सूर्यकिरणास्पृष्टव्योमखण्डरूपा, चतुर्यामात्मिका वा रात्रिः, तदुभयं त्वहोरात्रम् । पञ्चदशाहोरात्राणि पक्षः । पक्षद्वयात्मको मासः । द्वादशमासनिर्वृत्तः संवत्सरः । पञ्चसंवत्सरप्रमाणं युगम् । असंख्येययुगमानं पल्योपमम् । पल्योपमदशकोटीकोटिघटितं सागरोपमम् । दशसागरोपमकोटीकोट्यात्मिकोत्सर्पिणी । एवमवसर्पिण्यपि । अनन्ताभिरुत्सर्पिण्यऽवसर्पिणीभिः पुद्गलपरावर्तः, स च द्रव्यादिभेदभिन्नः प्रवचनादवसेयः । इति निर्युक्तिगाथार्थः ।।२०३६।। १. उच्छ्वासप्राणस्तोकलवादय: T, B. C २. गाथार्थ इति जीवतत्त्वम् A. T,C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy